________________ विभाग-२ विज्ञानकारणं दृश्यते ततस्तथैव तत् कल्प्यते क्षपायां मार्जारादे यनमेव दृश्यते अतस्तदेव तत्कारणं प्रकल्प्यते न सौर्यम् भवेदेवं यदि तथादर्शनं स्यात् यावता यथा रात्रौ भास्करकरादर्शनं तथा दिवा चाक्षुषरश्म्यदर्शनम् यथा वा दिवा भास्करकरावभासनं तथा क्षपायां वृषदंशनेत्रालोकावलोकनम् विशेषस्त्वयम्-एकदा भास्कररश्मयोऽन्यदा नायनास्तेऽनुमेया इति / अथान्धकारावष्टब्धनिशीथिनीसमयेऽपि भास्करकरसम्भवे नक्तञ्चराणामिव नराणामपि रूपदर्शनं स्यात्, न; सन्तोऽपि तदा तत्करा न नराणां रूपदर्शनजननप्रत्यलाः यथा त एव वासरे उलूकादीनाम् भावशक्तीनां विचित्रत्वात् / तस्मादनुपलम्भात् क्षपायां यथा न भास्करकरास्तथा नायना रश्मयोऽन्यदेति स्थितम् / यदपि परेणात्रोक्तम् 'दूरस्थितकुड्यादिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनान्नानुपलम्भात् तदभावसिद्धिः' इति, तदप्यनेनैव निरस्तम्; रविरश्मीनामपि क्षपायामभावसिद्धिप्रसक्तेः / किञ्च, योगिन आत्ममन:संयोगो यदा सदसद्वर्गालम्बनमेकं ज्ञानं जनयति तदा सकलसदसद्वर्गस्तस्य चेन्न सहकारी तर्हि "अर्थवत् प्रमाणम्" (वात्स्या० भा०पृ०१) इत्यत्र "अर्थः सहकारी यस्य विशिष्टप्रमितौ प्रमातृप्रमेयाभ्यामर्थान्तरं तदर्थवत् प्रमाणम्" इति विरुध्यते / सहकारी चेदसौ देशाद्यन्तरितोऽपि तहि तत्कुड्यादेः प्रभासुरतयोत्पत्तौ प्रदीपो देशव्यवहितोऽपि सहकारीति नान्तराले तद्रश्मिसिद्धिः / ततो न तैरनुपलम्भव्यभिचारः अत एव नाप्यनुमानम् उदकं तेज उखादिव्यवहितमप्युष्णस्पर्श जनयिष्यतीति नोदके उष्णस्पर्शोपलम्भादनुद्भूतभास्वररूपस्य तेजसः सिद्धिः / यदपि चक्षुः स्वरश्मिसम्बद्धार्थप्रकाशकं तैजसत्वात् प्रदीपवदित्यनुमानम् अनेन किं चक्षुषो रश्मयः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थसम्बन्धस्तेषां साध्यत इति ? आद्ये पक्षे तरुणनारीनयनानां दुग्धधवलतया भासुररश्मिरहितानामध्यक्षतः प्रतीतेरध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः / अथ यध्यक्षग्रहणयोग्यं साध्यमध्यक्षत एव तत्र नोपलभ्यते तत्र तद्बाधः कर्मणः यथाऽनुष्णोऽग्निः सत्त्वादिति न चाध्यक्षग्रहणयोग्या नायना रश्मयः सदा तेषामदृश्यत्वात्, न; पृथिव्यादिद्रव्येऽपि तेषां साध्यत्वप्रसक्तेः / तथाहि-रश्मिवन्तो भूम्यादयः सत्त्वात् प्रदीपवदित्यनुमातुं शक्यत्वात् यथैव हि तैजसत्वं प्रदीपे रश्मिवत्तया व्याप्तमुपलब्धं तथा सत्त्वमपि / अस्याऽन्यथाऽपि संभावना न तैजसत्वस्येति कुतो विभागः ? अथ भूम्यादेस्तत्साधनेऽध्यक्षबाधः, न; दुग्धधवलक्षाबलालोचनानामपि तत्साधने तद्विरोधः समानः / अथ वृषदंशचक्षुषोऽध्यक्षतो वीक्ष्यन्ते रश्मय इति कथं तद्विरोधः ? ननु यदि तत्र त ईक्ष्यन्तेऽन्यत्र किमायातम् ? तत एवान्यत्र तत्साधने हेम्नि पीतत्वप्रतीतौ रजते पीतत्वप्रसङ्गःस प्रमाणबाधनमुभयत्र तुल्यम् / अथ तत्र तत्प्रतीतेर्नान्यत्र सत्त्वेन ते साध्यन्ते अपि त्वनुमानतः तत् तु दृष्टान्तमात्रम्; नन्वत्र 'नेत्रत्वात्' इति यदि हेतुः 'तैजसत्वात्' इत्यस्याऽऽनर्थक्यम् / अत एव प्रकृतसिद्धेः अध्यक्षबाधा चात्रापि तदवंस्थैव 'तैज-सत्वात्' इत्यस्य हेतुत्वे प्रदीपदृष्टान्तेनैवार्थसिद्धेवृषदंशनेत्रनिदर्शनमनर्थकम् / न च तस्य