________________ सन्दर्भग्रन्थाः प्रयुक्तत्वेनास्य हेतोः कालात्ययापदिष्टत्वात् अवयविलक्षणस्य च चक्षुषोऽसिद्धेराश्रयासिद्धश्च हेतुः / अत एव स्वरूपासिद्धश्च न ह्यविद्यमानस्यावयविनो बाह्येन्द्रियत्वमुपपन्नम् 'त्वगादिवत्' इति निदर्शनमपि साध्यसाधनविकलम् / अथ चक्षुःशब्देनात्र तद्रश्मयोऽभिधीयन्त इति न प्रागुक्तदोषावकाशः, न; तेषामसिद्धेः इतरथाऽस्यानुमानस्य वैफल्यापत्तेराश्रयासिद्धो हेतुः / अथात एवानुमानात् तत्सिद्धेर्नायं दोषः, न इतरेतराश्रयदोषप्रसक्तेः / तथाहि-तद्रश्मिसिद्धावाश्रयासिद्धत्वदोषपरिहारः तस्मिंश्च सत्यतो हेतोस्तत्सिद्धिरिति व्यक्तमितरेतराश्रयत्वम् अत एव स्वरूपासिद्धिरपि हेतोः तेषामसिद्धौ तदाश्रयबाह्येन्द्रियत्वासिद्धेः / यदि पुनर्गोलकाद् बहिर्भूता रश्मयश्चक्षुःशब्दवाच्या अर्थप्रकाशकास्तहि गोलकस्याञ्जनादिना संस्कार उन्मीलनादिकश्च व्यापारो वैयर्थ्यमनुभवेत् / अथ गोलकाश्रयास्त इति तन्निमीलने असंस्कारे वा तेषामपि स्थगनमसंस्कृतिश्चेति विषयं प्रति गमनं तत्प्रकाशनं च न स्यात् अतस्तदर्थं तदुन्मीलनं तत्संस्कारश्च न वैयर्थ्यमनुभवेत् तर्हि गोलकानुषक्तकामलादेः प्रकाशकत्वं तेषां स्यात् न हि प्रदीपः स्वलग्नं शलाकादिकं न प्रकाशयतीति दृष्टम् / यैरपि 'गोलकान्तर्गतं तेजोद्रव्यमस्ति तदाश्रितास्ते' इत्यभ्युपगतं तेषामपीदं दूषणं समानम् न हि काचकूपिकान्तर्गताः प्रदीपादिरश्मयस्ततो निर्गच्छन्तस्तद्योगिनमर्थं न प्रकाशयन्ति / तदेवं रश्मीनामसिद्धेर्न ते चक्षुःशब्दाभिधेयाः / अथ रसनादयो बाह्येन्द्रियत्वात् प्राप्तार्थप्रकाशका उपलब्धाः बाह्येन्द्रियं च चक्षुः ततस्तदपि प्राप्तार्थप्रकाशकम् न च गोलकस्य बाह्यार्थप्राप्तिः सम्भविनीति पारिशेष्यात् तद्रश्मीनां तत्प्राप्तिरिति रश्मिसिद्धिः, न; अत्यासन्नमलाञ्जनशलाकादे: प्रकाशप्रसक्तेः / किञ्च, यदि गोलकान्निर्गत्य बाह्यार्थेनाभिसम्बध्य तद्रश्मयोऽर्थं प्रकाशयन्ति तयर्थं प्रत्युपसर्पन्तस्त उपलभ्येरन् रूपस्पर्शविशेषवतां तैजसानां वह्नयादिवत् सतामनुपलम्भे निमित्ताभावात् न चोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादसत्त्वम् / अनुद्भूतरूपस्पर्शत्वादनुपलभ्यास्त इति चेत्, किं पुनरनुद्भूतरूपस्पर्शं तेजोद्रव्यमुपलब्धं येनैवं कल्पना भवेत् ? अथ दृश्यते सतोरपि तैजसरूपस्पर्शयोर्नीरहेम्नोरनुद्भूतिः, न; स्वर्णतप्तोदकयोस्तेजस्त्वासिद्धेः दृष्टानुसारेण चानुपलभ्यमानभावप्रकल्पनाः प्रभवन्ति अन्यथा रात्रौ भास्करकराः सन्तोऽपि नोपलभ्यन्ते अनुद्भूतरूपस्पर्शत्वान्नायनरश्मिवदित्यपि कल्पनाप्रसक्तेः / अथ यद्यपि नायना रश्मयोऽध्यक्षतो न प्रतीयन्ते तथाप्यनुमानतः प्रतीयन्ते अनुमानं च तेजोरश्मिवत् चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपकलिकावदिति तद्रश्मिसत्त्वप्रतिपादकम् नैवं भास्करकरसत्त्वप्रतिपादकं क्षपायामनुमानमस्ति, न; निशायां बहुलान्धकारायां वृषदंशचक्षुर्बाह्यालोकसव्यपेक्षमर्थप्रकाशकं चक्षुष्ट्वात् दिवा पुरुषचक्षुर्वदित्यस्यानुमानस्य रात्रौ तत्सत्त्वप्रतिपादकस्य भावात् / अथ वृषदंशादेश्चाक्षुषं तेजोऽस्तीत्यर्थसिद्धेर्न किञ्चिद् भास्करज्योतिषाऽनुद्भूतरूपेण प्रकल्पितेन तर्हि मनुष्यादीनामपि तदस्तीति किमुद्भूतरूपेण बाह्यतेजसा तेषां कृत्यम् ? अथ यद् यथा दृश्यते तत् तथाऽभ्युपगम्यत इति मनुष्यादीनां नायनं सौर्यं च तेजो