________________ विभाग-२ न च भवति कदाचिद् बुद्बुदस्यापि तस्मात् प्रपतनमिति युक्तस्तस्य नाशः किमाशु ? // 73 / / किञ्च, कलशकुलिशप्राकाराद्यत्रिविष्टपकन्दराकुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गुरम् / ज्वलनकलिकावत् किन्त्वस्मिन् निरन्तरताभ्रमः प्रभवति, वदन्नित्थं शाक्यः कथं प्रतिहन्यते ? // 74 // तस्थौ स्थमा तदस्मिन् व्यवधिमदमुना प्रेक्ष्यते येन सर्वं तत् सिद्धा नेत्रबुद्धिर्व्यवधिपरिगतस्यापि भावस्य सम्यक् / कुड्यावष्टब्धबुद्धिर्भवति किमु न चेद् नेदृशी योग्यताऽस्य प्राप्तस्यापि प्रकाशे प्रभवति न कथं लोचनाद् गन्धबुद्धिः ? // 75 // किं वा न प्रतिभासते शशधरे कर्मापि तद्रूपवद् ? दूराच्चेद् विलसत् तदस्य हृदये लक्ष्येत किं लाञ्छनम् ? / . तस्माच्चक्षुषि योग्यतैव शरणं साक्षी च नः प्रत्ययस्तत् तर्कप्रगुण ! प्रतीहि नयनेष्वप्राप्यधीकर्तृताम् / / 76 // // सम्मति टीका वादमहार्णवापरनामा तत्त्वबोधविधायीनी // इन्द्रियं यदि चक्षुर्गोलकादिकमवयविरूपमभ्युपगम्यते तदा तस्य स्वविषयेण व्यवहितदेशेन पर्वतादिना सन्निकर्षोऽसिद्धः / न ह्यत्यन्तव्यवहितयोहिमवद्विन्ध्ययोरिव चक्षुर्गोलकतदर्थयोः सन्निकर्षः संयोगादिलक्षणः सिद्धः / न चावयविलक्षणं गोलकादि वस्तु सिद्धम् तद्ग्राहकाभिमतप्रमाणस्य निषिद्धत्वात् / न च तदाधारः संयोगादिकः सम्बन्धः समस्ति पराभ्युपगतस्य तस्य निषिद्धत्वात् निषेत्स्यमानत्वाच्च / योऽपि कथंचित् पदार्थाव्यतिरिक्त: संश्लेषलक्षणः काष्ठःजतुनोरिव सम्बन्धः प्रसिद्धः, सोऽपि व्यवहितेन पर्वतादिना स्वविषयेण सह चक्षुर्गोलकस्यानुपपन्नः तत्प्रसाधक-प्रमाणाभावात् / अथास्ति तत्प्रसाधकं प्रमाणम् / ननु तत् किं प्रत्यक्षम्, उतानुमानम् ? न तावत् प्रत्यक्षमत्र विषये प्रवर्तितुमुत्सहते न हि 'देवदत्तचक्षुस्तद्विषयेण पर्वतादिना सम्बद्धम्' इत्यस्मदादेरक्षप्रभवा प्रतिपत्तिः / अथानुमानं तत्सन्निकर्षप्रसाधनाय प्रवर्तते / ननु किं तदनुमानमिति वक्तव्यम् ? अथ 'चक्षुः प्राप्तार्थप्रकाशकम् बाह्येन्द्रियत्वात् त्वगादिवत्' इत्येतदनुमानं तत्सन्निकर्षप्रसाधनम्, न; चक्षुर्गोलकतदर्थयोरध्यक्षेणैवासन्निकृष्टयोः प्रतिपत्तेरध्यक्षबाधितकर्मनिर्देशानन्तर