________________ विभाग-२ क्वचित् साध्यनिवृत्त्या तु हेतुव्यावृत्तिदर्शनात् / प्रतिबन्धप्रसिद्धिश्चेत् तदाऽत्रापि कथं न सा ? // 51 // रसनस्पर्शनघ्राणश्रोत्रान्येन्द्रियताबलात् / चक्षुरप्राप्यविज्ञातृ मनोवत् प्रतिपद्यताम् // 52 // साध्यव्यावृत्तितोऽत्रापि हेतुव्यावृत्तिरीक्षिता। न च कश्चिद् विशेषोऽस्ति येनैकत्रैव सा मता // 53 / / बाह्येन्द्रियत्वं सकलङ्कमेवं न तार्किकान् प्रीणयितुं तदीष्टे / भ्रूविभ्रमो दुर्भगभामिनीनां वैदग्ध्यभाजो भजते न चेतः / / 54 // किञ्चाऽत्र संसूचितमादिशब्दाद् वृत्ते पुरश्चारिणि कारकत्वम् / यत् प्राप्यकारित्वसमर्थनाय नेत्रस्य तत् काणदृगञ्जनाभम् // 55 // यस्मादिदं मन्त्रजपोपसर्पत्प्रोद्दामरामाव्यभिचारदोषात् / उत्तालवेतालकरालकेलीकलङ्कितश्रीकमिवाऽवभाति // 56 // तथाहिकनकनिकषस्निग्धां मुग्धां मुहुर्मधुरस्मितां; चटुलकुटिलभ्रूविभ्रान्ति कटाक्षपटुच्छटाम् / त्रिजगति गतां कश्चिद् मन्त्री समानयति क्षणात्; तरुणरमणीमाराद् मन्त्रान् मनोभुवि संस्मरन् // 57 // कश्चिदत्र गदति स्म यत् पुनमन्त्रमन्त्रणगवी समानयेत् / युक्तमेव मदिरेक्षणादिकं तेन नाऽभिहितदूषणोदयः // 58 // मन्त्रस्य साक्षाद् घटना प्रियादिना परम्परातो यदि वा निगद्यते ? / साक्षाद् न तावद् यदयं विहायसो ध्वनिस्वरूपस्तव संमतो गुणः // 59 // ततोऽस्य तेनैव समं समस्ति संसक्तिवार्ता न तु पक्ष्मलाक्ष्या। अथाऽक्षरालम्बनवेदनं स्याद् मन्त्रस्तथाऽप्यस्त्वियमात्मनैव // 60 // अथापि मन्त्रस्य निवेद्यते त्वया संसक्तिरेतत्पतिदेवताऽऽत्मना / संतोषपोषप्रगुणा च सा प्रियां प्रियं प्रति प्रेरयति स्वयोगिनीम् // 61 // ब्रूमहेऽत्र ननु देवताऽऽत्मना मन्त्रवर्णविसरस्य का घट ? / अम्बरस्य गुण एष तत् कथं देवताऽऽत्मनि भजेत सङ्गतिम् ? // 62 / /