________________ सन्दर्भग्रन्थाः दोषः स एवोत्तरकल्पनायां यदात्मनः पुद्गल एष बाह्यः / चेतश्च तस्मादुपजायमानमेतद् बहिष्कारणजन्यताभृत् // 39 // चेतः सनातनतया कलितस्वरूपं; सर्वापकृष्टपरिमाणपवित्रितं च / प्रायः प्रियः प्रणयिनीप्रणयातिरेका-; देतत् करोति हृदये न तु तर्कतज्ज्ञः / / 40 // एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति / विकाराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम् // 41 // पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहि: स्यात् ? / स्थापित्यमाद्ये विषयाश्रितत्वं यद्वा प्रवृत्तिविषयोन्मुखी स्यात् ? // 42 // प्राचीनपक्षे प्रतिवाद्यसिद्धिकलङ्कःपङ्कः समुपैति हेतोः / स्याद्वादिना यत् प्रतिवादिनाऽस्य नाऽङ्गीकृतं मेयसमाश्रितत्वम् / / 43 // पक्षे तथा साधनशून्यताऽस्मिन् दृष्टान्तदोषः प्रकटः पटूनाम् / जिह्वेन्द्रियं नार्थसमाश्रितं यद् विलोकयामासुरमी कदाचित् // 44 // द्वितीयकल्पे किमसौ प्रवृत्तिराभिमुख्येन विसर्पणं स्यात् ? / आश्रित्य किं वा विषयप्रपञ्चं प्रतीतिसंपत्प्रतिबोधकत्वम् ? // 45 // पक्षे पुरश्चारिणि सिद्धिवन्ध्यं स्यात् साधनं जैनमतानुगानाम् / यस्माद् न तैर्लोचनरश्मिचक्रमङ्गीकृतं वस्तुमुखं प्रसर्पत् // 46 // निदर्शनस्य स्फुटमेव दृष्टं वैकल्यमत्रैव हि साधनेन / पदार्थसार्थं प्रति यद् न सर्पज्जिह्वेन्द्रियं केनचिदिष्टपूर्वम् // 47 // पक्षान्तरे तु व्यभिचारमुद्रा किं चेतसा नैव समुज्जजृम्भे ? / यस्मात् तदप्राप्य सुपर्वशैलस्वर्गे समुत्पादयति प्रतीतिम् // 48 // . शरीरस्य बहिर्देशे स्थायित्वं यदि जल्प्यते / बाह्येन्द्रियत्वमत्र स्यात् संदिग्धव्यभिचारिता // 49 // अप्राप्तार्थपरिच्छेदेनाऽपि सार्धं न विद्यते / हेतोर्बाह्येन्द्रियत्वस्य विरोधो बत कश्चन / / 50 / /