________________ भाष्यगाथा-१-२] इति कृत्वा कप्पव्ववहाराणमित्यदोषः / स्यान्मतिः, कल्प-व्यवहारावित्यनयोः कोऽर्थः ? को वा विशेषो द्वयोरप्यध्ययनयोः ? अत उच्यते / अज्झयण-णिरुत्ताणि य, तयोर्द्वयोरप्यध्ययनयोरर्थनिरुक्तान्यभिहितान्यन्यार्थान्यतो विशेषोऽनयोः / च शब्दादुद्देशकसूत्रेनिरुक्तानि च / तत्र निश्चितमुक्तं३ निरुक्तं / अध्ययननामाक्षरार्थः इत्यर्थः / तत्र 'कल्प' शब्दो ह्यनेकार्थाभिधायी / तद्यथा-क्वचित् सामर्थ्य, क्वचित् वर्णनायां, क्वचित् च्छेदने, क्वचित् करणे, क्वचित् औपम्ये, क्वचिदधिवासे / एतेष्वर्थेषु कल्पशब्दो गीतः / उक्तञ्च सामर्थ्य वर्णनायां च, छेदने करणे तथा / औपम्ये चाऽधिवासे च, कल्पशब्दं विदुर्बुधाः // [ ] तत्र सामर्थ्य तावत् 'कल्प'शब्दः, कल्पाध्ययनमधीत्यातिचारमलिनस्य साधोः समर्थः प्रायश्चित्तेन विशोधि कर्तुम् / वर्णनेऽपि-यावन्तः प्रायश्चित्तप्रकारास्तान् वर्णयति विभाषतीत्यर्थः / अथवा मूलोत्तरगुणान् कल्पयति वर्णयतीत्यर्थः / उक्तञ्च ‘कप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य / ववहारे ववृहरिया, पायच्छित्ता-ऽऽभवंते य // [ व्य० भा० पी० गा० 154] छेदनेऽपि-तपः शोधिमतिक्रान्तं पञ्चादिच्छेदेन पर्यायं छिनत्ति / करणेऽपि यद् दत्तं प्रायश्चित्तं तत्र तथा प्रयत्नं करोति कल्पाध्ययनवेत्ता, यथा तत् पारं नयति; अथवा करोत्याचार्यत्वं कल्पाध्ययनवेत्ता / औपम्येऽपि-पूर्वधराचार्यवद्भवति कल्पाध्ययनवेत्ता / अधिवासेऽपि-मासकल्पं कदाचित् प्रतिपूर्ण वसति, कारणे ऊनातिरिक्तमपि, एवं वर्षावासकल्पमपि / अथवा अस्मिन्नेव गच्छाधिवासः / विधिवद् अवहरणाद् व्यवहारः / अथवा वपनात् हरणाच्च व्यपहारः / अत्थी-पच्चत्थीणं, हाउं एकस्स श्ववति बीयस्स / एतेण उ ववहारो, अहिगारो एत्थ उ विहीए // [व्य० भा० पी० गा० 5] जस्स णाऽऽभवति तस्स हाउं, जस्स आभवति तस्स ददातीत्येषोऽर्थः८ / वक्ष्यमाणमपि च 'व्य(व)वहारे ववहरणं पायच्छित्ताभवंते य' / "वक्खाणविहिं पवक्खामि" त्ति। अस्य व्याख्या-वक्खाणविही उ अणुओगो त्ति / वक्खाणविहि त्ति वा, अणुओगो त्ति वा, एगटुं / तं प्रकर्षण भृशं वा वक्ष्यामि / 1. न्यन्वर्था० पू० 1 / 2. सूत्रे पू० 1 / 3. निश्चय पू० 1 / 4. अध्ययनाना० पाता० / 5. विभाषयती० पू० 1 / विभाषत इत्यर्थः पा० / 6. व्यव० पा०, पू० 1 / 7. वच्चइ पू० 1 / 8. ०स्स देतीत्यर्थः पू० 2 /