________________ बृहत्कल्पचूर्णिः // [ पीठिका काउं सुहगहण-धारण-संति-मंगल-निमित्तं आयरियो भस्सं२ काउकामो आदावेवरे गाधासूत्रमाह काऊण णमोक्कारं, तित्थयराणं तिलोगमहियाणं / कप्प-व्ववहाराणं, वक्खाणविहिं पवक्खामि // 1 // "काऊण णमोकारं०" गाधा / 'डुकृञ् करणे' अस्य धातोः क्त्वाप्रत्ययान्तस्य कृत्वेति रूपं भवति / किं कृत्वेति तदुच्यते-नमस्कारं / नम:' प्रह्वत्वे शब्दे / नमस्करणं नमस्कारः / प्रणामोऽर्चनं वन्दनं पूजनमित्यनर्थान्तरं / इन्द्राणामिति चेत् ? नेत्युच्यते / तित्थगराणं 'तृ प्लवनतरणयोः' तीर्थं तच्चतुर्विधं वर्णयित्वा भावतीर्थं कृतं यैस्ते तीर्थकराः, अतस्तेषां तीर्थकराणां / त्रय इति संख्या / 'लोक दर्शने' त्रीण्युत्पादादीनि दर्शनादीनि वा लोकयन्तीति त्रिलोकाः / मह पूजायाम् / महिताः पूजिताः, त्रिलोकाश्च ते महिताश्च त्रिलोकमहिताः / अथवा ऊर्ध्वाधस्तिर्यक्संज्ञकस्त्रिलोकः, स्वपर्यायैर्लोक्यते इति लोको ज्ञायते दृश्यते चेत्यर्थः / त्रिलोकेन महिता: वन्दिताः पूजिता इत्यनर्थान्तरमतस्तेषां 'तिलोगमहिताणं णमोकारं काउं' / किं करोषि त्वं? अत उच्यते-'कप्पव्ववहाराणं वक्खाणविधि पवक्खामि' / कल्पश्च व्यवहारश्च कल्प-व्यवहारौ / अतः कल्प-व्यवहाराणाम्। आहकल्पव्यवहारयोरिति वक्तव्ये कथं द्विवचने बहुवचनं क्रियते कल्प-व्यवहाराणामिति ? / एवं चोदकेनाक्षिप्ते आचार्यो ब्रवीति सक्कतपागतवयणाण विभासा जत्थ जुज्जते जं तु / अज्झयणनिरुत्ताणि य, वक्खाणविधी य अणुयोगो // 2 // "सक्कतपायत०" पुव्वद्धं / इह द्विविधं वचनं भवति / संस्कृतं प्राकृतं च। एतेसिं सक्कत-पायत-वयणाण विभासा करणीया / भाष्ये न कृता इत्यर्थः / चूर्त्यां तु क्रियते / ए-ओकारपराई, अंकारपरं च पायए नत्थि। व-सगारमज्झिमाणि य, क-चवग्ग-तवग्ग निहणाइं // [ नाट्यशास्त्र अ० 17] निर्णय इत्यर्थः / एतेहिं अक्खरेहिं जं वयणं तं पायत-वयणं / एभिः ऐ औ अः ङ ब न श षैश्च यत् तत् सक्कत-वयणं / एसा सक्कत-पायत-वयणाण विभासा कया / एतेसिं सक्कत-पायत-वयणाणं वत्स ! "जत्थ जुज्जए जं तु / " जत्थत्ति सक्कते पायते वा जुज्जते घटते जं जुत्तिवयणं, तत्र संस्कृते एकवचन-द्विवचन बहुवचनानि युज्यन्ते / यथा-वृक्षः वृक्षौ वृक्षाः। प्राकृते त्वेकवचनं बहुवचनं च युज्यते / यत् तत् द्विवचनं तद् बहुवचनेनाभिलप्यते 1. ०रणा सं० पा० / 2. हस्सं पा० 2, पू० 2 / भासं पा० / 3. ०वेदं पा० 2, पू०२ / 4. णम् पाता० / 5. वचना यु० पू० 2 / 6. यत्र द्वि० पू० 1 /