________________ 10] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा * अपायोऽपगमः, अपनोदः, अपव्याधः, अपेतमपगतमपविद्धमनुत्यमित्यनर्थान्तरम् / त.भा. 1/15 = अपायमाहुः कर्मैव निरपायाः पुरातनम् / पापशयकरं चित्रं निरुपक्रमसंज्ञकम् // यो.बि. 373 अपायविचयः = आस्रवविकथागौरवपरीषहाद्यैरपायस्तु विचयः / प्रश. 248 = रागद्वेषकषायाद्यैर्जायमानान् विचिन्तयेत् / यत्रापायांस्तदपायविचयध्यानमिष्यते // 10 // यो.शा. 10/10 अपुनर्बन्धकः = य इह परिणामादिभेदादपनर्बन्धकत्वेन तांस्तान कर्मपुद्गलान् बध्नाति स तत्क्रियाविष्टो ऽप्यपुनर्बन्धक उत्कृष्टस्थितेः / यो.श. * पावं न तिव्वभावा कुणइ, ण बहुमण्णई भवं घोरं / उचियट्ठिइं च सेवइ सव्वत्थ वि अपुणबंधो त्ति // 13 // यो.श. 13 = शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः / भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये // द्वा. 14/1 = एकदापि न बन्धो-मोहनीयकर्मोत्कृष्टस्थितिबन्धनं यस्य सः / पं. 2/44 = ग्रन्थिप्रदेशगतः सन् पुनरुत्कृष्टस्थित्यबन्धौपयिकयोग्यतावान् / उ.र. 22 = उत्कृष्टां कर्मस्थिति तथा अपुनर्बन्धकत्वेन यः क्षपयति सः / पञ्च. 5 अपुनःकरणसंगतः ____ = 'न पुनरकरणीयं करिष्यामि' इति निश्चयसमन्वितः / सा. 22 अपुष्टालम्बनम् = शठतया स्वमतिमात्रोत्प्रेक्षितम् / गु. 1/120 अपूर्वकरणम् = अपूर्वपरिणामः शुभोऽनादावपि भवे तेषु-तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसंजातपूर्वो ग्रन्थिभेदादिफलः / यो.दृ. .. अपूर्वधरणम् = स्वसमानाधिकरणतत्समानविषयकज्ञानाऽप्रयोज्यं ज्ञानग्रहणम् / सा. अपेक्षा = अनानन्दः, औत्सुक्यदु:खत्वात् / पञ्च. = इहलोकपरलोकफलस्पृहानुरूपा / यो.बि. अपोह: = उक्ति-युक्तिभ्यां विरुद्धार्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम्, * विशेषज्ञानम् / यो.शा. 1/51