________________ [105 55 | नाम व्याख्या गाथा = वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति / त.भा. 3/10 = एए चेव य वत्थू, वसंति एएसु नाणमाईया / जं परमगुणा सेसाणि, हेउफलभावओ हुंति // 3 // पं.व. = वसन्त्यस्मिन् गुण-पर्याया इति वस्तु चेतनादि / ध्या. वस्तुस्वभावः = कार्यकारणरूपपदार्थस्वतत्त्वम् / ल.वि. 128 वस्तुस्वरूपम् = हेयत्वज्ञेयत्वोपादेयत्वरूपम् / ध.प. वाक्यार्थः = चालना / उ.र. 155 = प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थः / षो. 11/7 वाग्गुप्तिः = मौनावलम्बनेन सर्वथा वा तन्निरोधरूपा मुखवस्त्राच्छादितमुखेन संभाषणादिना वाक्संवृत्तिरूपा वा / अ.म. = वाचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः / त.भा. = संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् / वाग्वृत्तेः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते // 42 // यो.शा. 1/42 वाग्दुष्प्रणिधानम् = वर्णसंस्काराभावोऽर्थानवगमश्चापलम् / यो.शा. 3/115 वाग्योगः = औदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूह___ साचिव्याज्जीवव्यापारः / ध्या. = भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः / त.भा. 6/1 वाग्योगप्रधाना पूजा = बीयाउसव्वमंगलनामा वायकिरियापहाणेसा / पुव्वुत्तविसयवत्थुसु ओचित्ताणायभेएण // 4 // विं. 8/4 वाचना = वाचनं वाचना विनेयाय निर्जरार्थे सूत्रादिदानम् / ध्या. 42 = सूत्रदानलक्षणा / सा. वात्सल्यम् = समानधर्मवतां बहुमानकार्यकरणम् / पं. 15/24 वादी = वाई पमाणकुसलो, रायदुवारेऽपि लद्धमाहप्पो, * परवादिविजेता / स.स. विकटनम् = शङ्काद्यतिचारालोचना स्वाभिप्रायनिवेदनमात्रम् / पं. 2/27 विकल्पनिवृत्तिः = अन्तःपरिणाममात्रसाध्या / अ.म. 3 38 57