________________ 70 श्रीजैनधर्मवरस्तोत्रम् अतो मुनिः प्राह-हे हलिन् ! निष्कलङ्कोऽयं ढेलडकदेवो जिनो वीतरागः सदा त्वया एकाग्रमनसा सेवनीयः जलादिपूजया, युगन्धर्यादिधान्यकणाः शुद्धा अग्रे मोच्याः / त्रिसन्ध्यं यो( ? )त्करणं कर्तव्यम् / ततो मुनिवचसा. तेन नित्यमेवं कर्तव्यमित्याभिग्रहो गृहीतः / मुनिस्त्वन्यत्र विजहार / अथो हली प्रभुसेवनमेवं कुर्वाण एकदा राजदेयभागदेयार्थं रुद्धः / एकविंशतिदिवसा जाताः / सेवां विना जलमपि तेन न गृहीतम् / ततो ग्रामाधीशेन मुक्तः / द्वाविंशतितमे दिवसे तृक्षुधातुरोऽपि श्रद्धाभक्तिवशतः प्रथमं प्रभुसेवनार्थं प्रभुसमीपमागतः / तस्मिन्नेवावसरेऽधिष्ठायिकयाऽम्बिकया तद्भक्तिशक्तिं विलोक्य जिनबिम्बं नवीनघुसृणविलेपनंपुष्पभूषणालङ्कृतं कृतम् / ततः स कृषीवलस्तद् बिम्बं तथाविधं दृष्ट्वाऽनुभूतपूर्वमिति चिन्त्यमानो जातजातिस्मृति: दृष्टभवत्रयः (जातः), तद्यथा-पूर्व 'मवन्त्यां' पुर्यां दयालाभिधो धनी जैनः श्रावको नित्यं जिनपूजां करोति साधून् प्रतिलाभयति / शुद्धाहारेण कालान्तरे निष्कषायगुरोः समीपे दीक्षां गृहीत्वा सिद्धान्तमधीत्य प्रान्ते चारित्रं विराध्य मृत्वा ज्योतिष्कसुरो भूत्वा च्युतोऽत्र कौटुम्बिको जातोऽहम् / अहो ! कर्मणां गतिः / ततो जिनस्वरूपं ध्यायन् क्षपकश्रेणिमारूढः केवलज्ञानं प्राप / सन्निहितदेवैः कृतकनककमलारूढो भव्येभ्यो देशनां ददौ / तत्रान्यत्र च बहून् भव्यजीवान् प्रतिबोध्य शिवं ययाविति द्रव्यस्तवाधिकारे सगडा शकड? )कथानकं समाप्तम् / इत्यष्टादशवृत्तार्थः // 18 // सूत्रम् नित्यं प्रसन्नवदनां महितां सुजैनी द्रव्यैः शुभै रुचिल ! कल्पलतोपमानाम् / यः सेवते न मलिनो ह्यधनो भवेत् स किं वा विबोधम्पयाति न जीवलोकः ? // 19 // व्याख्या हे 'रुचिल !' रुचि-धर्माभिलाषं लाति-गृह्णाति इति हे धर्माभिलाषिन् ! यः प्राणी नित्यं सुजैनी-व्यङ्गादिदोषरहितां शुभजिनप्रतिमां द्रव्यैः-चन्दनादिभिः महितांपूजितां सेवते-ध्यानाश्रयं करोति / कथंभूतैः द्रव्यैः ? 'शुभैः' निर्दूषणघुसृणपुष्पादिभिः / कथंभूतां सुजैनीम् ? प्रसन्नवदनां-हसन्मुखपङ्कजाम् / पुनः कथं० सुजैनी ? कल्पलतोपमानां-सेवकानां मनोवाञ्छितदाने कल्पवृक्षसमानाम् / हि इति निश्चितं स जीवलोकः-स संसारी प्राणी मलिनो न भवेत्, अधनो न भवेत् / वा-अथवा स जीवलोकः विबोधं किं न उपयाति ? अपि तु प्रतिबोधं प्राप्नोत्येव / अथ प्रतिलोमार्थमाह-यः जीवलोकः सुजैनी 1. 'वाऽविबोधं' इत्यर्थान्तरे।