________________ 71 श्रीभावप्रभसूरिकृतम् न सेक्ते स जीवलोको मलिनः-सपापो भवेत् अधनो-निर्धनो भवेत् / वा-पुनः सः अविबोधं-अज्ञानं किं न ( उप )याति ? अपि तु प्राप्नोत्येव इति / सुप्रतिमामिति कोऽर्थः ? तदाह ગૃહસ્થ નિજ ઘરે એક અંગુલથી માંડીને 12 બાર અંગુલ તાંઈ પ્રતિમા ઘરે પૂજવી. તદુપરાંતિ ચૈત્યે પૂજાઇ અને ચૈત્યે બાર ગુલથી લઘુ ન પૂજાઇ, લોહ-પાષાણ-કાઠ-માટીદાંત-વલાંકિત-ગોછાણ એટલાં ની પ્રતિમા ઘરે ન પૂજઈ. પુન: વિખષ્ઠિત વાંકા પરિકરરહિત પ્રમાણ થકી અયિક તથા હીન વિષમાંગ અપ્રતિષ્ટિત દુષ્ટ મલિન લંગ એહવા બિંબ ઘરે ન પૂજીઇ, ચૈત્યે પૂજાઇ, પુનઃ વલી ધાતુલેપ્યમય બિંબ વ્યંગ હુઈ તો ફિરી સમરાઇ, પણી તેહવી ફિરી પ્રતિષ્ઠા કર્યા વિના પૂજાઇ નહી. પુનઃ વલી કાષ્ટ પાષાણની પ્રતિમા ભંગ થઇ હુઇ ફિરી સમરાવવી નહી. પુનર્વિશેષ:-જે બિંબ મહાપુરુષે થાપ્યું હુઈ અને જે શત વર્ષ ઉપરાંત કાળનું હુઇ તે વ્યંગ થયું હુઇ તો ચૈત્યે પૂજાઇ, પણિ ઘરે નહી પૂજઈ. પુનર્વિશેષ:-સંસ્કાર સમરાવવાં પ્રમુખ દુષ્ટ પ્લેચ્છ માતંગાદિકને ફરસવઈ તોલવઇ परीक्षा 4217 यौने 7257 विंन प्रतिपाम / इति बिम्बशुद्धिः // आचारदिनकरे (142 तमे पत्राङ्के) ३श्लोकाः सन्ति // 1. 'आप्नोत्येव' इति ,क-पाठः / 2. तात्पर्यम्-गृहस्थो निजगृहे एकालमितां वृद्ध्या द्वादशाङ्गुलमितान्तां प्रतिमा पूजयेत् / ततोऽधिकाङ्गलमितां चैत्ये पूजयेत्, द्वादशाङ्गलेभ्यो लघु न पूजयेत् / लोह-पाषाण-काष्ठ-मृत्तिका-दन्तवलाङ्कित( द्रव्यविशेष)-गोमयैतावतां प्रतिमां गृहे न पूजयेत् / पुनर्विखण्डितं वक्र परिकररहितं प्रमाणतोऽधिकन्यूनं विषमाङ्गं अप्रतिष्ठितं दुष्टं मलिनं (वा) व्यङ्गं बिम्बं गृहे न पूजयेत्, चैत्ये पूजयेत् / पुनर्धातुलेप्यमये बिम्बे व्यङ्गे सति समीकुर्यात्, परन्तु तत् पुनः प्रतिष्ठामन्तरेण न पूजयेत्, पुनः काष्ठपाषाणप्रतिमायां तु व्यङ्गायां सत्यां सा पुनर्न समीकार्या / पुनर्विशेषः-यद् बिम्बं महापुरुषैः स्थापितं वर्षशताधिकालिकं सत् व्यङ्गं यदि भवति तर्हि तच्चैत्ये पूजयेत्, परं गहे न पूजयेत् / पुनर्विशेषः-संस्कारसमीकरणादिकर्मणि म्लेच्छ-मातङ्गादिस्पर्शे तोलने परीक्षाकरणे चौराद्यपहारे च बिम्बं पुनः प्रतिष्ठामर्हति // 3. ते च यथा-विषमैरङ्गलैर्हस्तैः, कार्य बिम्बं न तत्समैः / द्वादशाङ्गलतो हीनं, बिम्बं चैत्ये न धारयेत् // 1 // ततस्त्वधिकमागारे, सुखाकाङ्क्षी न पूजयेत् / लोहाश्मकाष्ठमृद्दन्त-चित्रगोविड्मयानि च // 2 // बिम्बानि कुशलाकाङ्क्षी, न गृहे पूजयेत् क्वचित् / खण्डिताङ्गानि वक्राणि, परिवारोज्झितानि च // 3 // प्रमाणाधिकहीनानि, विषमाङ्गस्थितीनि च / अप्रतिष्ठानि दुष्टानि, बिम्बानि मलिनानि च // 4 // चैत्ये गृहे न धार्याणि, बिम्बानि सुविचक्षणैः / धातुलेप्यमयं सर्वं, व्यङ्गं संस्कारमर्हति // 5 //