________________ 66 श्रीजैनधर्मवरस्तोत्रम् श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं / मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् // 1 // शार्दूल० १सयं पमज्जणे पुनं, सहस्सं च विलेवणे / सयसहस्सं मालाए, अणंतं गीयवाइए // 2 // अनु० पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः / / जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः // 3 // " अनु० इत्यादि // अथात्र विशेषज्ञापनार्थं प्रथमं पाशचन्द्रमतं लिख्यते-यदिन्द्राभिषेककारणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति सुरपुष्पेषु त्रसासम्भवोऽम्लानत्वं च हेतुश्चेद्धिंसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते / समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरग्रे देशनोवा॒ विकिरन्ति / मण्यादिरचनाऽप्यचित्तैव, उक्तं च राजप्रश्नीयोपाड़े-३' पुप्फवद्दलयं विउव्वंती'त्यादि नवकमलरचनाऽप्यचित्तैव ज्ञेयेति / एतन्मतमसत् / यत:-पुष्पवर्दलविकुर्वणमपि विकिरणमात्रसम्पादनार्थं अधोवृन्तजलस्थलजपुष्पविकिरणस्यैव पाठसिद्धत्वात् न पूजाले सचित्तशङ्का तदृष्टान्ते नानेया प्रतिमाशतकवृत्तौ द्वानवतितमकाव्यादिवृत्तौ श्रीयशोविजयोपाध्याय इति। अथ पद्मानन्दकाव्येऽप्यमरचन्द्रकवय आहुः, यतः "प्रासुकजानुमितानि, स्थलजलभवपञ्चवर्णसुरभीणि / व्यकिरन् व्यन्तरदेवा, न्यकृतवृन्तानि तत्र कुसुमानि // 1 // गीतिः " अत्र प्रासुकशब्देन द्वीन्द्रियादित्रसजीवरहितानि निरवद्यानि करटनादिदोषवर्जितानि पुष्पाणि, नहि पुनरचित्तानीत्येवं भावनीयम् / प्रथमं अत्र श्लोकेऽपि स्थलजलभवकुसुमानां पाठसिद्धत्वात् इति चतुर्दशसर्गे विलोकनीयम् / पुनर्निस्तुषं दर्शयति / "तथा आयोजनभूमिकुसुमवर्षविषये कृपार्दीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते, जीवविघातहेतुत्वादिति ? / तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति / एतच्चायुक्तम् / यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात्, न चैतदनार्षम् 1. छाया-शतं प्रमार्जने पुण्यं, सहस्रं च विलेपने / ___ शतसहस्रं मालायां, अनन्तं गीतवादने / 2. समवसरणभूमिकायाम् / 3. पुष्पवर्दलं विकुर्वन्ति / 4. 'विपर्ययकृपा०' इति क-पाठः / 5. उत्तरं कुर्वन्ति /