________________ श्रीभावप्रभसूरिकृतम् सूत्रम् सावद्यजोऽपि निरवद्यफलानुबन्धा___ दर्चाविधिः सुमभरेण वरः पुरोगः / साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो नो गृह्यते विविध ! वर्णविपर्ययेण ? // 18 // व्याख्या-अर्चाविधिः-पूजाविधिः सावद्यजः-सदोषजातोऽपि स्वरूपहिंसात्वात् सुमभरण-पुष्पप्रकरण पुरोगः-सर्वानुष्ठानस्य अग्रेसर: वर:-श्रेष्ठी वर्तते / कस्मात् ? निरवद्यफलानुबन्धात्-निष्पापफलपरम्पराप्तेः / दृष्टान्तमाह-विशिष्टा विधा-अनुष्ठानक्रिया यस्य सः तस्य सम्बोधने हे विविध ! (शब्द )निपुणैः-वैयाकरणैः वर्णविपर्ययेण साध्योऽपि सिंहशब्दः पुरोग: जिनादिशब्दस्य अग्रगत: वर:-श्रेष्ठः किमु नो गृह्यते ? अपि तु गृह्यत एव / कथं० सिंहशब्दः ? सावधजोऽपि, हिनस्तीति निरुक्तिवशात्, यथा जिनसिंहः अत्र निरवद्यफलानुबन्धात्-श्रेष्ठवाचित्वात् / यतो हेमसूरयो ब्रुवन्ति-"स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः / सिंहशार्दूलनागाद्याः" इत्यादि (अभिधानचिन्तामणे:) षष्ठकाण्डे ( श्लो० 76) जिनसिंहः मुनिव्याघ्रः प्रशस्यार्थप्रकाशक इति।अत्र विरताविरतानां श्रावकाणाम-पेक्षया "भावत्थवाओ दव्वत्थओ बहुगुणो" जिनपूजाफलं दानादिकसमानमित्यादि वक्तव्यता महानिशीथतृतीयाध्ययनतो ज्ञेया / वज्जा( सावद्य)चार्यः पञ्चशतमितान शिष्यान प्रति चन्द्रप्रभतीर्थयात्रां कारयिष्याम्यहमिति "२जइवि जिणालयं तहवि सावज्जमिणं" इति सावधाचार्यकथायामिति, स्वर्णमयं जिनायतनमित्यादि सर्वत्र महानिशीथः / एवं द्रौपदी ज्ञातायां (अ० 16, सू० 119), अम्बरपरिव्राजक औपपातिके (सू० 40), जङ्घाचारणविद्याचरणौ भगवत्यां(श० .20, उ० 9), चैत्यभक्तिर्दशमाने, सम्यग्भावितप्रतिमाभक्तिः व्यवहारसूत्रे इत्येवं सर्वैरानन्दादिभिः श्रावकैः प्रतिमा पूजिताऽस्ति / तत्फलं च ""यास्यामीति जिनालयं स लभते ध्यायंश्चतुर्थं फलं षष्ठं चोत्थित उत्थितोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि / 1. छाया-भावस्तवाद् द्रव्यस्तवो बहुगुणः / 2. छाया-यद्यपि जिनालयं (मन्दिर) तथापि सावधमिदम् / / 3. 'उपपातिकायां' इति ख-पाठः / 4. प्रश्नव्याकरणे संवरद्वारे / 5. सन्तुल्यतां यदुक्तं श्रावकाचारे "यास्यामीति हदि ध्याय-श्चतुर्थफलमश्नुते / उत्थितो लभते षष्ठं, त्वष्टमं पथि च व्रजन् // 1 // दृष्टे चैत्ये दशमं, द्वारि द्वादशमं लभेत / मध्ये पक्षोपवासस्य, मासः स्याच्च जिनाचर्या // 2 // "