________________ श्रीजैनधर्मवरस्तोत्रम् विति / पितृमुक्तभटपञ्चशतीं विप्रतार्य आर्यदेशमागत आर्द्रकुमारः / प्रतिमामभयाय सम्प्रेष्य सप्तक्षेत्रे धनं दत्त्वा मुनिलिङ्गं गृहीतवान् / भोगकर्मास्ति इति 'खस्थया देवतया निषिद्धोऽपि शुद्धो यतिः प्रत्येकबुद्धो जातः // ___एकदा विहरन् 'वसन्त पुरे देवदत्तश्रेष्ठिधनवतीभार्याङ्गजा श्रीमती नाम्नी सा च पूर्वभवबन्धुमतीजीव इति यत्रास्ति तन्नगरदेवकुले प्रतिमया स्थितः / बालाभिः समं रममाणया श्रीमत्या वृतः साधुः, देव्या रत्नवृष्टिः कृता / तस्मात् नष्टो मुनिः / भूपेन सा रत्नवृष्टिः श्रीमत्यै दत्ता / पितुराज्ञां गृहीत्वा दानशालायां स्थिता / कतिचिद्दिने दिङ्मूढं तं मुनिं तत्रागतं वस्त्राञ्चलेन जग्राह / भूपेन पौरजनैश्च हठात् तया समं परिणायितः सः / सुते द्वादशवर्षप्रमाणवयसि जाते तेनोक्तम्-प्रव्रजिष्याम्यहमधुनेति / तदा तर्कुमादाय कतिर्तुमुपविष्टा / पुत्रेणोक्तम्-किमिदं कर्म निर्मासि मातनिर्धनोचितम् ? / तयोक्तम्तव पिता व्रतं लाति / तेन मन्मनाक्षरेण सूत्रतन्तुभिर्बद्धो जनकः / पुत्रस्नेहात् सूत्रतन्तुमितद्वादशवर्षाणि गृहे स्थितः / ततो दीक्षां लात्वाऽयं व्यहरत् / भूपभीतास्ते पञ्चशतसुभटास्तत्रायाताश्चौरवृत्तयो मिलिताः अस्य मुनेः / अथ तान् प्रव्रज्य तैः सह वीरं नन्तुं 'राजगृहं' प्रतिचचाल स आर्द्रकमुनिः / अन्तराले मङ्खलीपुत्रो मिलित एकान्तनियतिवादी। ३"कालो साहव नियई पुव्वकयं पुरिसकारणे पंच / समवाए सम्मत्तं एगंते होइ मिच्छत्तं // 1 // " उपदेशपदे इत्यादिना निरुत्तरीकृतो मुनिना / ततोऽग्रे तपासाश्रमं गतः / ततो हस्तिभक्षकतापसैः शृङ्खलाबद्धहस्ती मुनिदर्शनात् त्रुटितबन्धनो मुनि नत्वा वनं ययौ / ' "पृष्टाश्च ते वदन्ति स्म, दन्ति क्षणन( भक्षण ?) कारणम् / रक्षार्थमन्यजीवाना-मेको हस्ती निहन्यते // 1 // " अनु० तापसानपि प्रतिबोध्य वीरजिनान्ते प्रेषीत् मुनिः / वीरेण दीक्षितास्ते आर्द्रकमुनिमाहात्म्यं श्रुत्वा श्रेणिकोऽभयेन सह तत्रागत्य नत्वा आर्द्रकसाधुमवादीत्-महच्चित्रं मेऽस्ति हस्तिमोक्षणात् / ऋषिणोक्तम्-किं चित्रमेतत् ? मम तन्तुपाशविमोक्षणं तु चित्रं, तत्स्वरूपं राज्ञे निवेदितं, (तत्) श्रुत्वा सर्वे लोका विस्मिताः / पुनः ऋषिर्जगौ-हे अभयकुमार ! त्वयाऽहं समुद्धृतः / ततो मुनी ‘राजगृहे' वीरं नत्वा तत्सेवया निरतीचारं व्रतं प्रपाल्य शिवं ययौ / इति आर्द्रककुमारकथालेशः / इति सप्तदशवृत्तार्थः सम्पूर्णः // 17 // 1. आकाशस्थितया / 2. 'साधु 2' इति क-पाठः / 3. छाया–कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं पञ्च / समवाये सम्यक्त्वं एकान्ते भवति मिथ्यात्वम् // 4. हननहेतुम् /