________________ श्रीभावप्रभसूरिकृतम् हे याज्ञिक ! त्वं कथयेत्युक्ते तेन चिन्तितं 'शिरच्छेदे तत्त्वं वाच्य'मित्युक्तेः याज्ञिकेन यज्ञकीलकाधस्तात् श्रीशान्तिनाथप्रतिमा दर्शिता / तां च दृष्ट्वा प्रतिबुद्धः शय्यम्भवो दीक्षां जग्राह / क्रमेण प्रभवः शय्यम्भवं स्वपट्टे संस्थाप्य स्वर्गं प्राप / शय्यम्भवसूरि: मुक्तया सगर्भया निजभार्यया प्रसूतमनकनामपुत्रहिताय श्रीदशवैकालिकं कृतवान् / स्वर्गं गतः / जिनबिम्बतो बोधं प्राप्तवान् / इति सम्पूर्णः कथालेशः / षोडशवृत्तस्यार्थः सम्पूर्णः // 16 // सूत्रम् अर्चा समीक्ष्य सुतरामभयेन मुक्तां मिथ्यात्वमाशु यदनार्यजनोऽप्यमुञ्चत् / * आर्यस्तदादरभरः कुलजस्ततो नो - किं ना मनोविषविकरमपाकरोति ? // 17 // व्याख्या-यतो हेतोः अनार्यजनोऽपि आशु-शीघ्रं मिथ्यात्वं अमुञ्चत् / किं कृत्वा ? सुतरां-अतिशयेन अभयेन मुक्तां-प्रहितां अर्चा-जिनप्रतिमां समीक्ष्य / "अर्चा पूजा प्रतिमाऽपि च" इति हैमः (अनेका० का० 2, श्लो० 70) ततो हेतोः आर्यः-अर्यजः नृशब्दस्य ना-नरः किं मनोविषविकारं नो अपाकरोति ? अपि तु निराकरोति / मनसःचित्तस्य विषमिव विकारं मिथ्यात्वमिति / कथं० ना-नर: ? कुलजः / पुनः कथं० ना ? 'तदादरभरः' तस्यां-अर्चायां आदरभरो यस्य सः, तत्सेवातत्पर इति / कः ? आर्द्रकुमारः / तथाहि 'आर्द्रक'देशे 'आर्द्रक पुरे आर्द्रकभूपतिः / तस्य आर्द्रिका प्रिया / तयोरार्द्रकुमारनामा पुत्रोऽस्ति / जनकेन श्रेणिकाय प्राभृतं मुक्तं तदाऽनेनाभयकुमाराय प्राभृतं रत्नवस्त्रादिकं प्रीतिं दधता पूर्वमदृष्टायाश्रुताय चापि / यतः "यदिन्दोरन्वेति २व्यसनमुदयं वा निधिरपा___ मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता / अयं कः सम्बन्धो यदनुहरते तस्य "कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः // 1 // " शिखरिणी ततोऽभयेन मुक्तां प्रतिमां दृष्ट्वा जातजातिस्मृतिः-पूर्वभवे सामायिकनामा कुटुम्बी साधुः, स्त्री बन्धुमती साध्वी / सोऽस्यां कामातुरो जातः / तदा व्रतभङ्गभयात् सा (अनशनेन ) मृतेति / तदनु सामायिकसाधुरप्यनशनेन मृतः / ततो द्वावपि देवत्वं प्राप्ता 1. 'प्राप्तः' इति ख-पाठः / 2. कष्टं क्षयरूपम् / 3. उदयं वृद्धिरूपम् / 4. कर्तृपदम् /