________________ 62 श्रीजैनधर्मवरस्तोत्रम् स्वर्णकारकृतोपसर्गेण क्षपकश्रेण्यारूढेन अन्तकृत्केवलिना भूयते स्मेति / एकदा समवसरणे वीरस्य कपटाशातनां कुर्वता सेडकदेवेन प्रभुप्रभृतीनां जातानि १क्षुतानि निशम्य मरजीवेत्यादिविषमकथनेन परीक्षितः श्रेणिकः क्रोधातुरः सन् नदीतटे पुनः परीक्षितः / यतः प्रबोधचिन्तामणौ "२नायं हित्वा क्रमं नायं, नाय मानायमम्बुनि / ५झषाकर्षमृर्षि वीक्ष्य, नायं सद्भावतश्च्युतः // 1 // " अनु० जिनधर्मोपरि दृढमतिं ज्ञात्वाऽस्मै द्वौ गोलको समर्पयित्वा (समर्प्य) तिरोभूयते स्म / तेन भग्नौ गोलको, (ततः) हारः कुण्डले च निर्गतानि श्रीजिनभक्तितः / श्रेणिकोऽग्रे पद्मनाभनामा प्रथमतीर्थङ्करो भविष्यतीति कथानकलेशः / पञ्चदशवृत्तार्थः सम्पूर्णः // 15 // सूत्रम् शय्यम्भवः शमधनोक्तिविचारदक्षः खड्गेन याज्ञिकजने हनने हठोत्थः / तत्त्वस्य रूपकथने द्रुतजातशान्ति र्यद् विग्रहं प्रशमयन्ति महानुभावाः // 16 // व्याख्या-शय्यम्भवो नाम्ना भट्टः तत्त्वस्य कथने सति द्रुतजातशान्तिः शीघ्रं विगलितक्रोधत्वात् उपशमयुक्तो बभूव / कथंभूतः शय्यम्भवः ? 'शमधनोक्तिविचारदक्ष' शमो धनं ययोस्तौ शमधनौ साधू द्वौ तयोः उक्ति:-वचनं तस्य विचारे दक्षः-निपुणः / यतः "अहो कष्टमहो कष्टं, तत्त्वं न ज्ञायते परं" अहो कष्टमित्याधुक्तिविचारे दक्षः / पुनः कथं० श० ? खड्गेन याज्ञिकजने-यज्ञोपाध्यायविषये हनने-मारणनिमित्तम्, निमित्तार्थे सप्तमी, हठोत्थ:-हठात् उत्थितः / यत्-यस्मात् कारणात् महानुभावाः विग्रहं-कलहं शमयन्तिदूरीकुर्वन्ति / रहस्यं कथानकादवसेयम् / तथाहिश्रीजम्बूस्वामिपदाम्बुजप्रभापतिः प्रभवप्रभुरस्ति / यतः ___ "प्रभवोऽपि प्रभुर्जीया-त्चौर्येण हरता धनम् / ___ लेभेऽनाचौर्यहरं, रत्नत्रयं तदद्भुतम् // 1 // " अनु० .. अन्यदा श्रीप्रभवस्वामिना गणे सङ्के चोपयोगो दत्तः / तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यजन्तं 'राजगृहे' ददर्श सः / तत्र गत्वा साधुभ्यां "अहो कष्टमहो कष्टं, तत्त्वं न ज्ञायते परम्" इति वचः श्रावितः / ततस्तेन खड्गं निष्काश्य तत्त्वं 1. छिक्काः / 2. नये भवं नायम् / 3. नीत्वा / 4. आनायस्तु मत्स्यजालम् / 5. झष:-मत्स्यः / 6. 'मुनि' इति ख-पाठः।