________________ श्रीभावप्रभसूरिकृतम् ___१गाहा हुई अणाहा गाहा सर्गे(ग्गे )ण पाडीया / धाहा गईउ गाहा नरिंदो रंडावण आवहे गाहा // 1 // सा गाथा भोजपण्डितैर्विभावितार्था / नृपेण वेश्यातो मोचापितः कालिदास इति लेशतः कथा // ___ अथ च चण्डप्रद्योतनस्य श्रावकीभूतया वेश्ययाऽभयकुमारोऽपि 'उज्जयिनी' नीयते स्म / कूलवालुको मुनिर्वेश्यया (मागधिकानाम्न्या) कुणिकसत्कया पातितो व्रतात् / पुनः धमिल्लकृतपुण्याद्या अवकरे क्षिप्ताः / तथा च कयाचित् कुट्टिन्या निजगृहबहिः सुप्तः पथिकः क्षत्रियः कश्चित् सधन इति ज्ञात्वा मारणार्थं विषचूर्णभृतनालिका तस्य पुता( ? )न्तः क्षिप्ता / यावत् (सा) मुखवायुना फुक्कां ददाति तावत् तस्य पुण्यप्रारभारात् प्रोद्भूतप्रभूतपायुवायुप्रेरितनालिकाविषचूर्णपूर्णमुखतालुरन्ध्रा सा मृतेति / अतोऽपि कुदेवपूजनं दुष्टम् // इति चतुर्दशवृत्तस्यार्थः // 14 // सूत्रम्__ श्रीश्रेणिकादिनृपवद् बहवो भवेयुः जीवा जिना जिनपभक्तिभरेण भव्याः ! / सच्चूर्णपूर्णविभवेन भृता भव( ज )न्ते चामीकरत्वमचिरादिव धातुभेदाः // 15 // व्याख्या-श्रीश्रेणिकेति / हे भव्याः ! श्रीश्रेणिकनृपवद् बहवो जीवा जिनाःतीर्थङ्करा भवेयुः / केन ? जिनपभक्तिभरण-जिनपतिसेवासमूहेन / उपलक्षणत्वात् विंशति• 'स्थानकासेवनेनापि / के इव ? धातुभेदा:-उपलभेदा इव / यथा धातुभेदा अचिरात्-तत्कालं चामीकरत्वं भव(ज)न्ते-प्राप्नुवन्ति / भूङ्प्राप्तौ सौत्रो धातुः / कथंभूता धातु०? सच्चूर्णपूर्णविभवेन भृता-मिश्रिताः-एकीकृताः, सतां-सिद्धानां यत् चूर्णं तस्य यो विभवःशक्तिः तेनेति / यथा कालिका( चा )र्येण गर्दभिल्लोच्छेदार्थं समानीयमानशाकिराजकटके पथि क्षीणशम्बले वासचूर्णेन मृत्तिकेष्टकानीमाडकः स्वर्णमयः कृत इति // अथ श्रीश्रेणिकः क्षायिकसम्यक्त्वधारी नित्यं स्वर्णमययवमालिकया प्रतिमां पूजयति स्म / यतो मेतार्यमुनिना कलादगृहगतेन गलितजवमालिकक्रौञ्चोपरि कृपाश्रितेन 1. एतत्स्थाने प्रतिभातीयं गाथा-गाहा हुई अणाहा, गाहासग्गेण पंडियग्गाहा / गाहामइओगाहा नरिंद ! रंडाण आवहे गाहा // [ गाथा जाताऽनाथा गाथासर्गेण पण्डितग्राह्या / अगाधमत्यवगाह्या नरेन्द्र ! रण्डाभ्य आयाति गाथा // ] 2. 'मुखान्तः' इति क-पाठः / 3. अपानम् / 4. कलादः-सुवर्णकारः /