________________ 60 श्रीजैनधर्मवरस्तोत्रम् आविष्टलिङ्गः / ननु इति प्रश्ने / दक्षस्य-निपुणस्य नरस्य कर्णिकाया:-कुट्टिन्याः तत्-प्रसिद्ध नटविटसेवितं पदं-स्थानं किमु सुखाय ( सम्भवि-) सम्भाव्यते ? अपि तु नेति / यतः "द्यूतं च मांसं च सुरा च वेश्या, पापद्धिचौरीपरदारसेवाः / एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं व्रज( नय )न्ति // 1 // " उपजातिः अथवा दक्षस्य-निपुणभ्रमरस्य कर्णिकाया:-कमलकोशस्य पदं तत्रैव स्थिरवास्तव्यत्वेन सुखाय न सम्भवि / यतः "रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः / इत्थं विचिन्तयति कोशगते द्विरेफे हा 'हन्त हन्त नलिनी गज उज्जहार // 1 // " वसन्त० अथवा दक्षस्य-जीवपुद्गलस्वभावज्ञस्य कर्णिकायाः-कर्णभूषणस्य पदं सुखाय न, विद्वत्त्वहेतुत्वात् / अथवैवं दक्षस्य नरस्य दक्षस्य-द्रुमस्य वा कर्णिकायाः-हस्तिहस्ताग्रस्य पदं-स्थानं न सुखायेति / यतो हस्तितो हस्तसहस्रं दूरतः स्थेयम् / यतः (चाणक्यनीतौ)___ "शकटं पञ्चहस्तेन, दशहस्तेन वाजिनम् / गजं हस्तसहस्रेण, देशत्यागेन दुर्जनम् // 1 // " अनु० वृक्षोऽपि गजसङ्गाद् भ( भु)ग्नत्वं यातीति / “कर्णिका कर्णभूषणे / बीजकोशे सरोजस्य करमध्याङ्गलावपि / कुट्टिन्यां हस्तिहस्ताग्रे" इति हैमः (अनेका० का० 3, श्लो० 624-625) / "दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ / द्रुमे" इति हैमः (अनेका० का० 2, श्लो० 567) / अत्र दृष्टान्त:-कालिदासो नित्यं वेश्यायां रमते / तस्या मुखं ताम्बूलरक्तं वीक्ष्य (तेन) प्रोक्ता गाथा "जीवी सासा हत्थे सासो करेइ गयणअब्भासो / अहवा वली(लि)ओ न वली( लि)ओ मुहवन्नं कवण सइहल्ली ! // 1 // " आर्या वेश्यया प्रोक्तम्-हे हला ! गृह्यतां हन्यतामयम् / तेनोक्तम्-कोऽपराधः ? / तयोक्तम-गाथामिमां भोजाग्रे श्रावयित्वा लक्षद्रव्यं लास्यामि / कविनोक्तम्-नित्यं नवीनां कृत्वा तुभ्यमर्पया( यिष्या )मि / मां निजापवरके जीवन्तं रक्ष / नित्यं लक्षां लाहि / तयोक्तम्-एवमस्तु / सा तथैव करोति / कतिचिद् दिनानि नीत्वा कविना तस्यैका गाथा दत्ता / यतः 1. 'मलतः कमलिनी' इति सुभाषितरत्नभाण्डागारे (पृ० 233) / 2. छाया-जीवे श्वासः हस्तयोः सु-आसः करोति गमनाभ्यासः / अथवा वलितो (जीवः) न वलितो मुखवर्णः कथं सखे ! // 3. लक्षशब्दः स्त्रीक्लीबलिङ्ग।