________________ श्रीभावप्रभसूरिकृतम् 59 - अथ जिनान् मुक्त्वा वनानि भजति तदुपरि दृष्टान्तमाह भरतचक्रिपुत्रो मरीचिर्दीक्षां पालयितुमसमर्थः / ततस्त्यक्तजैनवेषः त्रिदण्डी क्षुरमुण्डः शिखाधारी शिरसि धृतमयूरबर्हच्छत्रः कृतकषायवस्त्रः सोपानत् स्थूलप्राणातिपातविरतिवृषभजिनेन सह विजहार / जनो विसदृशं वेषं तस्य दृष्ट्वा धर्मं पप्रच्छ तदा शुद्धं धर्ममुदित्वा प्रभुपार्श्वे मोचयति / तस्य एकदा रोगोत्पत्तिः, परं न केनापि साधुना तस्य सेवा कृता / गते रोगे चिन्तितं तेन-यदि कोऽपि शिष्यो मिलति तदा वरम् / एकदा कपिलनामा राजपुत्रो दूरभव्यः समवसरणमाजगाम / ऋषभस्वामिना प्रोक्तो धर्मः कपिलाय नारुचत् यथा सूर्योदयो घूकाय सुखाय न स्यात् / ततो निर्गत्य यतिभ्यो विलक्षणवेषं मरीचिं लक्षयित्वा धर्मान्तरशुश्रूषया स राजसूर्धर्मं तं पप्रच्छ / ततो मरीचिरूचे-अत्र धर्मो नास्ति, चेद् धर्मेच्छुः तर्हि भगवत्समीपं गच्छ / ततः पुनरागत्य प्रभुमुखाद् धर्मस्तथैव तेन श्रुतः, परं चक्रवाकाय चन्द्र इव तस्मै स धर्मो नारुचत् / भूयो मरीचिं समेत्य सोऽवदत्-किं भवतः कीदृशोऽपि धर्मो नास्ति ? किं धर्मोज्झितं व्रतं स्यात् ? इति श्रुत्वा मरीचिरचिन्तयत्कोऽप्यहो मम सदृशोऽयम्, सदृग्योगश्चिरादभूत्, मम निष्प्रतिचारकस्य प्रतिचार एष भविष्यति इति / तदा मरीचिना प्रोक्तम्-अत्रापि धर्मोऽस्ति तत्रापि धर्मोऽस्ति, "कविला २इहापि धम्म' इत्यागमवचनात् / तेन वचसा सागरकोटाकोटीभवभ्रमणं समुपार्जितम् / ततः कपिलो दीक्षितः / ततः प्रभृति जनः परिव्राजकतां भेजे / कपिलदर्शनं जातम् / इति कपिलकथानकं समाप्तं पद्मानन्दे / इति त्रयोदशवृत्तस्यार्थः // 13 // सूत्रम् हे भव्य ! हेयमहितं कथितं कुदेव सम्पूजनं सुमतिनाऽत्र गरोपमानम् / दुःखाप्तिहेतुरतुलं किमु तत् सुखाय दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? // 14 // व्याख्या-अत्र-अस्मिन् लोके 'सुमतिना' सुष्ठ-शोभमाना मतिः-ज्ञानं यस्य स तेन सुज्ञानयुक्तपुरुषेण कुदेवसम्पूजनं-हरिहरादीनां सम्पूजनं हेयं-त्यजनीयं कथितं-उक्तम् / किंविशिष्टं कुदेव० ? अहितं-अनिष्टकारकम् / अत एव पुनः किं० कु० ? गरोपमानंविषसमानम् / पुनः किं० कु० ? अतुलं-अमेयम् / दुःखाप्तिहेतुः-दुःखाप्तिकारणम् / हेतुशब्द 1. कपिल ! इहापि धर्मः / 2. 'इत्थंपि इहयंपि' इति पाठः सुबोधिकादिषु /