________________ श्रीजैनधर्मवरस्तोत्रम् क्रूरस्वभावे ! करुणाविहीने ! कठोरवाक्ये ! कृपणा धवेऽपि / अलक्ष्मिके ! क्रोधमुखी विमूढे !, कुरूद्यमं गोमयमानय द्राक् // 3 // उपजातिः इति निरुत्तरीकृता हरिभा / कोऽपि जैनमुनिः पृष्टः / तेन तस्य भार्याया अधर्मकारिण्याः पूर्वभवः कथितः / ततोऽधर्मस्य फलं ज्ञात्वा जैनधर्मिणौ जातौ / तावपि क्रमेण जिनधर्मप्रसादात् गोमतीहरिभट्टौ सुखिनौ बभूवतुरिति // अथो मनोरमा भानुश्च दम्पती अखण्डश्रावकधर्मं प्रपाल्य सुखसमाधिना परमेष्ठिध्यानेन मृत्वा सुधर्मदेवलोके द्वौ देवौ जातौ / ततश्च्युत्वा ‘पूर्वमहाविदेहे' स्त्रीभर्तारौ भूत्वा यौवनावस्थायामेव दीक्षां लात्वा मुक्तिं गमिष्यतः / इति मनोरमाभानुकथा सम्पूर्णा / इति द्वादशस्य वृत्तस्यार्थः सम्पूर्णः // 12 // सूत्रम् अर्हन्त एव जगदीश्वरतां श्रयन्तः ___सर्वातिशायिसुखदा नितरां निषेव्याः / हित्वाऽत्र तान् भजति मुक्तिकृते मुधाऽधी र्नीलद्रुमाणि विपिनानि न किं हि मानी ? // 13 // व्याख्या-भव्यैः अर्हन्त एव नितराम्-अतिशयेन निषेव्याः-सेवनीयाः / कथंभूता अर्हन्तः ? जगदीश्वरतां श्रयन्तः-त्रिभुवनाधिपत्यं दधतः / पुनः कथं० अर्हन्तः ? सर्वेभ्यः (अतिशायि-) उत्कृष्टं सुखं ददतीति सर्वातिशायिसुखदाः / हि इत्यवधारणे / (अत्रअस्मिन् जगति) मानी मानः-गर्वः चित्तोन्नतिः सोऽस्यास्तीति मानी-मानयुक्तो नरः मुक्तिकृते-मोक्षकार्याय किं विपिनानि-वनानि मुधा-वृथा न भजति ? न सेवते ? अपि तु सेवते / वनमध्ये तापसो भवतीत्यर्थः / किं कृत्वा ? तान्-अर्हतः हित्वा-त्यक्त्वा / कथं० मानी ? अधी:-निर्बुद्धिः / कथंभूतानि विपिनानि ? 'नीलद्रुमाणि' नीला द्रुमा-वृक्षा येषु तानि इति / तीर्थङ्करा (एव) अतिशायिसुखदाः / यत उक्तम् "क्व १पर्वपीयूषकरः क्व तारकाः क्व वा स्वयम्भूरमणः क्व गोष्पदम् ? / वियन्मणि:२ क्व क्व रेवयोमणिः स वा क्व शं प्रभूपासनजं क्व राज्यजम् ? // 1 // " वंशस्थम् . राज्यदानावसरे भरतेन प्रोक्तुं प्रभुं प्रतीति पद्मानन्दे // 1. पौर्णमीयचन्द्रः / 2. सूर्यः / 3. खद्योतः /