________________ श्रीभावप्रभसूरिस्कृतम् पण्डित ! १स्य सदा पापं, संसारपरिवर्धनम् / जिनेन्द्रवचने यस्य, २तस्य जन्म निरर्थकम् // 8 // अनु० येन प्लुष्टमनोभवेन सहसा ध्वस्तो भवस्य 'प्रचः पपीतो येन कठोरकर्मकलभः सिंहत्वमाबिभ्रता / ६पाकं येन निराकृतं भवशतोपात्तं भजे तं जिनं ____ हीनं पण्डित एव पूरणपटुर्नान्योऽत्र जाल्मो भवेत् // 9 // शार्दूल० "शब्दस्य तुरीये भागे, “जव्यान्ते राजवर्जिते / १°वाजं यत्नेन दातव्यं, ११कविभ्यो १२वज्रमिश्रितम् // 10 // अनु० इत्येवं मनोरमावचनानि // तौ दम्पती नित्यं गुरोर्मुखाद् व्याख्यानं शृण्वन्तौ देवपूजां कुर्वन्तौ दानं ददतौ यथाशक्ति प्रत्याख्यानं विदधतौ कालं गमयतः / श्वश्रूश्वशुरयोरतीव वाल्लभ्यभाजनं तौ जातौ / क्रमेण मातापितरौ दिवं गतौ / गृहस्वामी भानुर्जातः // ___इतश्च पूर्वप्रतिवेश्मिका वनी नाम्नाऽधार्मिकी सा मृत्वाऽत्रैव नगरे भानोरेव प्रातिवेश्मिकहरिनाम्नो भट्टस्य गोमती नाम्ना भार्या जाताऽस्ति / यदा परिणीय गृहमानीताऽस्ति तत्प्रभृति गृहलक्ष्मीः सर्वा नष्टा / कष्टेन गृहनिर्वाहो वर्तते / तया गोमत्या तयोः परस्परं प्रेमालापं श्रुत्वा स्वपतिर्हरिः प्रोक्तः-शृणु, कया रीत्या भानुः स्वस्त्री जागरयतीत्यादिकं पश्य / तदा हरिः प्राह-क्व सा ? क्व त्वम् ? / यतः शृणु-सा कीदृशी ? क्व रत्नकान्तिः क्व च काचकान्तिः, क्व देववल्लिः क्व च १३मत्तशाखा / क्व कामधेनुः क्व च १५सर्वभक्षा, पुण्येन याऽऽभाति गृहाङ्गणेऽसौ // 1 // उपजाति: दानेन लक्ष्मीर्वचसा च वाणी, शीलेन शी(सी)ता गुणरत्नखानिः / रूपेण देवेन्द्रसुताऽस्ति सा तु, भाग्येन पूर्वाचरितेन लब्धा // 2 // इन्द्रवज्रा अथ त्वं यादृश्यसि तादृशीं त्वां जागरयामि / शृणुरे रे प्रिये ! पक्वपटोलनेत्रे !, लम्बस्तनी( ने !) निर्जितकाकनादे ! / यत्पादनिक्षेपगलद्गृहश्री-रुत्तिष्ठ दुष्टे ! दलनाय गच्छ // 1 // इन्द्रवज्रा रे घोरनिद्रे ! कलहप्रसक्ते !, रे प्रेतरूपे ! नितरां कुरूपे ! / रे दुर्भगे ! भाग्यविवर्जिते ! रे, उत्तिष्ठ दुष्टे ! सलिलाय गच्छ // 2 // इन्द्रवज्रा 1. घातय / 2. उद्यमं कुरु / 3. क्षिप / 4-6 प्रचमध्ये पंप्रक्षेपणात् प्रपंचः, एवं पीत: पीडितः, पाकं पातकं इति ज्ञेयम् / 7. दिनस्य / 8. चतुर्थप्रहरे / 9. चन्द्ररहिते अमावासीदिने / 10. अन्नम् / 11. यतिभ्यः / 12. घृतयुक्तम् / 13. धत्तूरवृक्षशाखा / 14. अजा /