________________ 56 श्रीजैनधर्मवरस्तोत्रम् अकुंपाशांधवीमश्रे-रथुर्श्वतिर्मरल्लियान् / १आद्यन्ताविह संयोज्य, ते भवन्तु सुखाय ते // 8 // अनु० २सद्योगसंश्लेषविशेषसौख्यं, प्राप्नोति ३भावी जिनमुख्यभक्तेः / धर्मं विना नैव सुखस्य लेश, इतीह मे धर्मधनैरभाणि // 9 // उप० इति सरससुवाक्यैः कर्णपर्णैः, पवित्रै निहितहितविचित्रै नधर्मोद्यमोक्तैः / पतिमुखकमलोत्थैर्या प्रबुद्धाऽस्ति धन्या श्रयति सुकृतकृत्यं जङ्गमा साऽपि लक्ष्मीः // 10 // मालिनी इति भर्तृवचनानि / मनोरमाऽप्यवसरे भानुं भर्तारं सम्बोधयति / तथाहि जीवितेश ! जिनराजपूजनं, प्राणनाथ ! परमेष्ठिकीर्तनम् / ' आर्यपुत्र ! मुनिराजसेवनं, स्याद्ध दीश ! शिवसौख्यसाधनम् // 1 // रथोद्धता सेव्यते यदि जिनेन्द्रशासनं, प्राप्यते शिवदरत्नकत्रिकम् / / अन्यशासनगते च लभ्यते, संसृतिभ्रमणमेव केवलम् // 2 // रथो० यत: 'गम्यते यदि मृगेन्द्रमण्डलं, लभ्यते करिकपोलमुक्त( मौक्ति )कम् / जम्बुकालयगतेऽपि लक्ष्यते, वत्सपुच्छखुरचर्मखण्डितम् // 3 // रथो० इच्छतीश ! परशासने जनो, ब्रह्म निश्चलमनश्वरं वरम् / देवतत्त्वगुरुतत्त्वधर्मिता-लक्षणेन गलिते कथं यतः // 4 // रथो० अविवेकिनि भूपाले, करोत्याशां समृद्धये / योजनानां शतं गन्तुं, करोत्याशां स मृद्धये // 5 // अनु० अन्त्यचरणे मृदः-मृत्तिकायाः हयः-अश्वः / समृद्धय इति स्पष्टम् / स्यात्पदाङ्कितसमस्तवस्तुकं, मञ्जुलं जिनमतं नयोज्ज्वलम् / गर्वमन्दिरमहं जयाम्ययं, कोऽत्र वक्त्यपि तथोत्तरं यथा // 6 // रथो० याहि शूकर ! भद्रं ते, ब्रूहि सिंहो मया जितः / पण्डिता एव जानन्ति, सिंहशूकरयोर्बलम् // 7 // अनु० 1. आद्यान्तपादसम्मीलने 'अरकुन्थुपार्श्वशान्तिधर्मवीरमल्लिश्रेयान्' इति / 2. शुभपतेः शुभस्त्रियाः इत्यादियोगः संयोगः, तस्य श्लेषः-सङ्गमः / 3. भावी भवी इति शब्दप्रभेदः, प्राणीत्यर्थः / 4. हृदयेश्वर ! / 5. सुभाषितरत्नभाण्डागारे ( पृ० 241) तु पाठो यथा "गम्यते यदि मृगेन्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् / जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनम् // " 6. 'धर्मता' इति क-पाठः / 7. स्यात्पदमनेकान्तद्योतकं तेन लक्षितं सकलवस्तु /