________________ श्रीभावप्रभसूरिकृतम् ____ ततो द्वावपि गृहं गतौ स्वाभ्यां स्वाभ्यां मातरपिताभ्यां ज्ञातवृत्तान्ताभ्यां मिथः परिणायितौ द्विदेहावेकजीवाविव बभूवतुः / जातिस्मरणत्वात् पूर्वाभ्यसितं काव्यकरणसंस्कृतजल्पनेन मिथो विनोदं कुर्वाते स्म / लोके सौभाग्यभाजनं जातौ प्रेमरससागरनिमग्नौ, सुसंयोगो धर्मेणैव प्राप्यत इत्यागमोक्तेः / तयोरवसरे परस्परं प्रेमालापा धर्मयुक्ता एव भवन्ति / तथाहि रात्र्यवसाने भानुः स्वस्त्री प्रति प्राह "सुकोमले ! चन्द्रसमानवक्रे ! प्रिये ! वदन्ती मधुरां च वाणीम् / सम्यग् जिनेन्द्रस्मरणाय शीघ्र-मुत्तिष्ठ जैनी रजनी जगाम // 1 // उपजाति: कुर्वन्ति सत्साधुगणाः स्वकृत्यं, पठन्ति शिष्या जिनभाषितानि / ध्यायन्ति शिष्टाः परमेष्ठिमन्त्रं, मा शेष्व बाले ! रजनी जगाम // 2 // " उप० शुकाः सुपुण्यं जिनराजनाम, पठन्ति सत्काञ्चनपञ्जरस्थाः / भद्रे ! तथा स्पर्धितसारिकाऽपि, त्यज प्रमादं रजनी जगाम // 3 // उप० एते पठन्ति कृतिनो बत जैनरक्षा मेते पठन्ति जिननिर्मलनामपङ्क्तीः / एते पठन्ति जिनशाश्वततीर्थमाला___ मुत्थीयतां सुनयने ! रजनी जगाम // 4 // वसन्ततिलका मार्गे मार्गे देवयोत्कारकामा, यान्त्यायान्ति श्रद्धया श्राद्धमुख्याः / चैत्ये चैत्ये श्रूयते घण्टघोषः, श्रव्यो नव्यो मुञ्च निद्रां 'महेले ! // 5 // शालिनी एते व्रजन्ति हरिणास्तृणभक्षणाय चूणि विधातुमथ यान्ति हि पक्षिणोऽपि / मार्गस्तथापि सुवहः किल शीतलश्च शय्यां विमुञ्च महिले ! रजनी जगाम // 6 // वसन्ततिलका श्रोत्रयोः सुमुखि ! ते सुधा वनं, नेत्रयोरपि तदेव जीवनम् / मास एव निवसस्यऽबिन्दुना, चन्दनेन परिपूरयान्तरम् // 7 // '' रथोद्धता .. वनमध्ये चकारपूरणात् वचनं, पुनः वनमध्ये दकारपूरणात् वदनं, अथ मासे मध्ये नकारपूरणात् मानसे मनसि हे स्त्रि ! त्वं निवससि / आन्तरं चन्दनेन पूरय / कथंभूतेन चन्दनेन ? अबिन्दुना-बिन्दुरहितेन / शेषं स्पष्टमिति // अथवा पाठान्तरं श्रोत्रयोर्जिनपते ! सुधा वनमित्यादि काव्यं शेषं तथैव पठनीयम् / हे जिनपते ! तव वचनं श्रोत्रयोः सुधा नेत्रयोः वदनं जीवितं / हे जिन ! त्वं मानसे वससि इत्यस्मिन् पक्षेऽपि सर्वं योजनीयमिति // 1. ललने!।