________________ 54 श्रीजैनधर्मवरस्तोत्रम् तन्मन्येऽखिलजन्ममृत्युहरणो देवाधिदेवो जिनो / देवेष्वन्यतरेषु राजति यतो नेदं स्वरूपं क्षितौ // 1 // शार्दूल० यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे क्वचित् / / अंसे यस्य वसन्ति दैवतवराः सार्धं महासिद्धिभिः / सद्धर्माख्यनिधिं बुधाः ! कुरुत तं किं वः प्रयासैः परैः ? // 2 // " शार्दूल० इति निशम्य विप्रस्य मनो ध्वनितं, ततो जिनसाधुजैनधर्मयोरपि स्वरूपं कथितम् / तदा लघुकर्मत्वात् प्रतिबोधं प्राप्तः परमजैनश्रावको जातो ज्ञातनवतत्त्वः सकलजैनशास्त्रवित् साधुजनसेवाकारकः मिथ्यात्वभ्रान्तिनिवारकः / तद्भार्याऽपि जैनी जाता / एकदा व्याख्याने सूरिमुखात् सौभाग्यपञ्चमीतपस्तः सौभाग्यरोहिणीतपस्तः पतिवल्लभमित्यादितपोमाहात्म्यं श्रुत्वा दम्पतीभ्यां सकलतपांसि कृतानि उद्यापनाकादिविधिसहितानि श्री शत्रुञ्जया'दितीर्थयात्रा नित्यं गृहजिनदेवपूजास्तुतिरित्यादि सुकृतानि साधुभ्यो दानानि कृत्वा परमभोगफलं बबन्ध / तत्रैका प्रातिवेश्मिका वनीनाम्नी परिवसति, धर्मलेशमपि न करोति / दिवाऽनिशमजावत् सर्वभक्षा / तयोस्तपोदानसुकृतानि दृष्ट्वा सा हसति दुर्भगत्वकर्म सा च बन्धाति स्म / ततः कालेन मृत्वा शास्त्रप्रियः 'मथुरायां' श्रेष्ठिचन्दिलस्य धनाढ्यस्य पद्माभार्यायां पुत्रत्वेन समुत्पन्नो भानुनामा बभूव / तस्यामेव नगर्यां गुणवती मृत्वा महद्धिककमलाख्यश्रेष्ठिनः सुन्दरीनाम्न्यां भार्यायां पुत्री बभूव / सा च नाम्ना मनोरमा पित्रोरतीव वल्लभा जाता / अथ भानुर्यौवनं प्राप्तः / मनोरमाऽपि यौवनं प्राप्ता / एकदा जिनमन्दिरे समागतौ तौ परस्परविलोकनेन जातजातिस्मरणेन दृष्टपूर्वभवौ जातमिथोऽनुरागौ जातौ / ततः पूर्वध( भ )वज्ञापनार्थं विनोदार्थं च मनोरमा पपाठ "कमलदलसुनेत्रो हारविस्तीर्णतोयः . स्तनतटयुगहंसो रोमराजीतरङ्गः / चलनगतिगजेन्द्रः शर्वरीपूर्णचन्द्रो १नुरिह जगति सेव्यः कस्य सुस्त्रीतटाकः ? // 1 // " मालिनी इति निशम्य भानुः प्राह "विमलगिरिमुखानां निर्मिता येन यात्रा विशदचरणभृभ्यः पुण्यदानं प्रदत्तम् / स्मितकुसुमसुगन्धैश्चार्चितः पूर्वमर्हन् नुरिह जगति सेव्यस्तस्य सुस्त्रीतटाकः // 2 // मालिनी 1. पुरुषस्य /