________________ श्रीभावप्रभसूरिकृतम् भवदीयदेवाः शृङ्गाररौद्ररसतरङ्गिता वर्तन्ते / तेनोक्तम्-कथम् ? / आचार्यैरुक्तम्-शृणु "सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च 'परां विलज्ज ! शिरसा तच्चापि सोढं मया / श्रीर्जाताऽमृतमन्थने यदि हरे: कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः // 1 // शार्दूल० एकं ध्याननिमीलनान्मुकुलितं चक्षुद्वितीयं पुनः ___ पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् / अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं - शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः // 2 // शार्दूल० रामो नाम बभूव हुं तदबला सीतेति हुं तां २पितु. चा पञ्चवटीवने विचरतस्तस्याहरद् रावणः / निद्रार्थं जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः __ पूर्वं स्मर्तुरवन्तु कोपकुटिलभूभङ्गरा दृष्टयः // 3 // शार्दूल० दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः / आत्मन्येवानुरक्तो यः, श्रियं दिशतु केशवः // 4 // " परं भो भट्ट ! भवदीयशास्त्रे कानिचित् सूक्तानि वर्तन्ते तानि जैनवाक्यान्येव / यतः "सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसम्पदः / तवैव ताः पूर्वमहार्णवोत्थिताः _ जगत्प्रमाणं जिनवाक्यविप्लु( पुषः // 1 // " वंशस्थविलम् -(प्रथमद्वात्रिंशिकायां श्लो० 30) इति सिद्धसेनोक्तत्वात् / इत्यादि श्रुत्वा भट्टेनोक्तम्-सत्यं, परं युष्मदीयदेववर्णना क्रियताम् / तदा सूरिराह " ३यदृष्टिः करुणातरङ्गलहरी चैतस्य सौम्यं मुखं आकार: प्रशमाकरः परिकरः शान्तः प्रसन्ना तनुः / 1. पराम्-अपरां, गङ्गां इत्यर्थः / 2. दशरथस्य / 3. सन्तुल्यताम्-जं दिट्ठी करुणातरंगियफुडा एयस्स सोम्म मुहं आयारो पसमायरो परियरो सन्तो पसन्ना तणू / तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो जिणो देवाणं अवराण दीसइ जओ नेयं सरूवं जए //