________________ श्रीभावप्रभसूरिकृतम् __“१बिंटवाइं सुरभि, जलथलयं दिव्वकुसुमनीहारिं / __पय( इ )रिति समंतेणं, दसद्धवण्णं कुसुमवासं( वुढेि ? ) // 1 // " आर्या - (इ)ति सिद्धान्तवचनात् / एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति, न तत्र देशे देवा: पुष्पाणि किरन्तीति / एतदप्युत्तराभासम् / न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति / तस्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते / यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमुचु( मच )कुन्दकुमुदकमलदलमुकुलमालतीविकचविचकिलप्रमुखकुसुमसमूहानामप्युपरि संचरिष्णौ स्थानौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुल्लासस्तेषामापनिपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रभावोज्जृम्भमाणप्रसादादेवेति' प्रवचनसारोद्धार ( द्वा० ३९)वृत्तौ श्रीसिद्धसेनसूरिविरचितायां लिखितम् / इति चर्चा सम्पूर्णा // __ अथात्र द्रव्यस्तवोपरि दृष्टान्तः–'मरुस्थल्यां' 'धूलिया'ऽभिधाने ग्रामे एकः शकडनामा कौटुम्बिको, वसति स्म / स प्रावृषि हलं वाहयति तदा ‘ढेलड' नामतस्तत्क्षेत्रात् जिनबिम्बं प्रकटितं दृष्ट्वा तेन मूर्खशेखरेण चिन्तितम्-किमयं शिशुक्रीडनको ढेलडकः ? परं नवीनो दृश्यते, तेन मदीयंग्रामे किञ्चिदेव स्थानं नास्ति, ततोऽयमेव ढेलडकदेवोऽस्तु इति कृत्वा तत्र समीपस्थजीर्णशून्यलघुदेवकुलिकायां स्थापितः / यदा हलिको भुङ्क्ते तदा पूर्व तं निमन्त्रयते / कतिषुचित् दिनेषु गच्छत्सु कश्चित् साधुर्मार्गवशात् तत्क्षेत्रतरुच्छायामासीनः तदा हलिना 'नमां हां इति प्रत्युक्ते मुनिना धर्मलाभोऽभाणि / हली तु भोजनार्थमुपविष्टः / पुत्रेण ढेलडकदेवमानाय्य वक्ति स्म-भो ढेलडक ! देव ! 'करां थाहरी सेव / .. बाटी षी( खी)च सालणो, वीच(इं) रच्छा( ब्बा) त्रास घइसां छासि आरोगो, थाहरो स्वर्गनिवास" इत्युक्त्वा भोजनं कृतवान् / यतिना प्रोक्तम्-किमिदम् ? / तेनोक्तम्-क्षेत्रात् प्रकटितो ढेलडकोऽयं देवः / मुनिना चिन्तितम्-अहो ! अयं जडबुद्धिः / अस्मै सर्वथा सत्यं कथ्यते तदा अयं न मन्यते, यतो मूढः शनैः शनैर्मार्गमायाति / ततो मुनिहलिनमाहहे हलिन् ! मया विज्ञातोऽयं देवः, शृणु-त्रिभुवनभूषणं 'यादव'वंशशिरोरत्नं शङ्खलाञ्छनः 1. छाया-वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुम( गन्ध )निर्झरिणीम् / प्रकिरन्ति समन्ततो दशार्धर्वां कुसुमवृष्टिम् // 2. आत्मानं सहृदयं-पण्डितं मन्यन्ते ते, पण्डिताभिमानिनः / 3. अतिशयेन भवति / 4. 'नमाम्यहम्' इति तात्पर्यम् / 5. तात्पर्यम्-कुर्वे तव सेवाम् / . 6. तात्पर्यम्-बाटी-पीच-सालणो (इति मारवाडीनाम्नो भोज्यपदार्थान् ) मध्ये रब्बां (राव इति गूजरे) त्रासे ( पात्रविशेषे) घइसां (घेस इति गूर्जरे) तक्रं (च) भुक्ष्व, तव स्वर्गे निवासः /