________________ श्रीभावप्रभसूरिकृतम् ता: मर्दयन्ति स्म / रे ! त्वं श्वेतपटैः पाषण्डिभिः प्रतारितोऽसि इति वदन्ति स्म / तदा निर्दया एते इति तेन सागरदत्तेन त्यक्ताः / अनाप्तसम्यक्त्वात् मृत्वा स चायं तव जात्यश्वोऽजायत / प्राग्जन्मकारितजिनप्रतिमायाः प्रभावात् पुनरेष मम संयोगं धर्मसंयोगं च प्रापत् / इति श्रुत्वा जातजातिस्मृतिः ततोऽश्वः स्वामिनः पार्श्वेऽनशनं कृत्वा 'सहस्रारे' सुरो जातः / अवधिना प्राग्जन्म विज्ञाय सोऽश्वदेवोऽत्रागत्य स्वर्णप्राकारस्थां मुनिसुव्रतप्रतिमां विदधाति स्म / अश्वावबोधाख्यं 'भृगुकच्छ'पुरमभूत् तदा अत्र सवैयो १जंगमतित्थ तुरंगमसंगमरंगमहानिधिकारन जानी भाषे प्रयोजन योजनसाठि निशाये( स )में आये जो निरम( म ? )लज्ञानी अच्छ मही भृगुकच्छ सुलच्छन पावन कीनी सुधाकिर वानी ताके नमो मुनिसुव्रतके पद संपदकारन तारन प्रानी // 1 // // इति कथालेशः सम्पूर्णः // अथ पुनरत्र शुद्धदेवलक्षणशुद्धगुरुशुद्धधर्मदृढरागोपरि दृष्टान्त: पूर्व मवन्त्यां'नगर्यां शास्त्रप्रिय इति नाम्ना विप्रो धनाढ्यो वसति / तस्य प्रिया गुणवती वर्तते / परं स च कीदृशः ? समस्तवेदपारगामी, शब्दशास्त्रनिपुणमतिः, तत्कालकाव्यकरणात्यन्तरतिः, घटसरस्वतीवत् संस्कृतजल्पनशक्तिः, छन्दोऽलङ्कारादिसकलशास्त्रदृढधृतिः, मिथ्यात्ववासितमतिरस्ति / तत्प्रियाऽपि शब्दशास्त्रादिसंस्कृतजल्पनादौ विदुषी वर्तते / एकदा शास्त्रप्रियः काञ्चिद् रमणीं गच्छन्ती दृष्ट्वा प्राह "वक्रं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः / वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ? // 1 // " शार्दूल० "जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कवं तनोति / विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पापहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः // 2 // " मन्दाक्रान्ता 1. तात्पर्यम्-जङ्गमतीर्थं तुरङ्गमसङ्गमरङ्गमहानिधिकारणं ज्ञात्वा .. भाषते प्रयोजनं योजनषष्टिं निशासमय आगतो यो निर्मलज्ञानी / अच्छा मही भृगुकच्छस्य सुलक्षणेन पवित्रीकृता सुधाकीर्वाण्या तस्य नमत मुनिसुव्रतस्य पादौ सम्पदकारणं तारणं प्राणिनः //