________________ श्रीभावप्रभसूरिकृतम् 49 भीमस्तु सुरो भूत्वा 'राजगृहे' श्रेणिकधारिणीपुत्रो नन्दीषेणनामा जज्ञे / क्रमेण दीक्षितो वीरान्तिके / दशपूर्वधारी कन्दर्पाभिभूतो निकाचितभोगकर्मत्वाद् वेश्यागृहे द्वादश वर्षाणि स्थितः / प्रतिदिनं दश दश नरान् प्रतिबोधयन् वीरान्ते दीक्षां ग्राहयन् कालं गमयति स्म। द्वादशवर्षान्ते पुनर्दीक्षां गृहीत्वा मुक्तिमगमत्, महानिशीथवचनात् / अन्यत्र देवो दृश्यते / इति पात्रापात्रदानफलम् / // इति एकादशवृत्तार्थः // 11 // अथ पात्रदानप्रसङ्गात् सप्तक्षेत्रीमाह-तत्र प्रथमं जिनबिम्बं चाश्रित्याहसूत्रम् तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैराः / / १सत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदि वा प्रभावः // 12 // व्याख्या-इह-लोके तीर्थङ्कराः सत्-निरन्तरं पूजिताः अथवा सम्यक् प्रकारेण पूजिताः सन्तः किं किं हितं-वाञ्छितं न विदधति ? अपि तु सर्वं वाञ्छितं कुर्वन्त्येव, भक्तानामिति शेषः / कथंभूताः तीर्थङ्कराः ? 'सकलेति' सकलैः-समस्तैः दोषैः-अन्तरायादिभिः दोषैविमुक्तं देहं येषां ते / पुनः कथंभूताः तीर्थङ्कराः ? स्नेहात् मिथ:-परस्परं गलितं-नष्टं सिंहगजादीनां वैरं येभ्यस्ते / यदि वा हन्तेति निश्चयेन / महतां-गरिष्ठानां प्रभावः अचिन्त्यःअचिन्तनीयः / यतः "मैत्री प्रमोदां करुणामुदासतां प्रभुस्तथाऽपुष्यदिमां सभां यथा / द्वेषो विषादोऽकृपता स्वकान्यता तेषां द्विषो मीनभिया प्रपेदिरे // 1 // " इन्द्रवंशा (इति) पद्मानन्दे / "सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं मार्जारी हंसबालं प्रणयपरिवशात् केकिकान्ता भुजङ्गम् / वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् // 1 // स्रग्धरा 1. 'सत् पूजिता' इत्यपि पदच्छेदः समीचीनः /