________________ 48 श्रीजैनधर्मवरस्तोत्रम् ग्रामद्वारमागच्छत् तावत् सन्मुखमागच्छते मासक्षपणकाय साधवे क्षुधितोऽपि ददौ / अतो दानप्रभावात् सम्पूर्णचन्द्रस्वप्नसूचितो 'बेनातटे' राजा बभूव / कश्चिज्जटिल एतत्स्वप्नसूचितोऽपि निष्पुण्यत्वात् घृतगुडमिश्रं मण्डकमेव लभते स्म, नान्यत् // // इति दशमवृत्तस्यार्थः सम्पूर्णः // 10 // सूत्रम् जैनेन यन्नरकहेतुरपात्रमुक्तं ____ मुक्तं मुधा तदपरेण कथं श्रितं ही ? / / मद्यादि यत् परिहृतं सुधियाऽथ यज्ञे पीतं न किं तदपि दुर्धरवाडवेन ? // 11 // व्याख्या-जैनेन-जैनगीतार्थेन यत् अपात्रं-कुपात्रं नरकहेतुः उक्तम्, अत एव मुक्तंत्यक्तम् / ही इति खेदे / अपरेण अन्यतीर्थिना नरेण तद् अपात्रं मुधा-निरर्थकम्, कथं संभावनायाम्, श्रितं-आश्रितम् / अत्र दृष्टान्तमाह-सुधिया-पण्डितजनेन यत् मद्यादिमदिरादिकं परिहृतं-त्यक्तम्, अथान्वादेशे, दुर्धरवाडवेन-उद्धतविप्रेण यज्ञे तदपि मद्यादिकं न पीतम् ? अपि तु पीतम् / उन्मत्ता विप्रा वदन्ति __ "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् / हस्तिना ताड्यमानोऽपि, न गच्छेज्जिनमन्दिरे // 1 // " अत्र जैन आह "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् / / ब्राह्मणोऽपि गजोद्धान्तो, न प्रवेश्यो जिनालये // 1 // " इति / मूढविप्रा अर्थं न जानन्ति, यतः जिनस्य-कृष्णस्य मन्दिरे न गच्छेत्, कृष्णमूर्तेराशातनत्वात् / अतोऽर्हच्चैत्ये तु सर्वथा प्रवेष्टमयोग्य ईदृक् / जिष्णुनामालिषु "मार्जजिनौ कुमोदकः" इति हैमः (अभि० का० 2, श्लो० 130) / अत्रापात्रदाने दृष्टान्तः मुखप्रियनाम्ना विप्रेण दासीसुतभीमनामा सूदो रन्धनार्थं रक्षितः / भीमेन प्रोक्तम्सर्वेषु विप्रेषु भुक्तेषु सत्सु यत् शेष अन्नादिकं उद्गरितं तत् सर्वं मदीयम् / तेनोक्तम्एवमस्तु / नित्यशो मुखप्रियेण सहस्रसंख्या विप्राः पोषिताः / अथ भीमेन तेनान्नादिकेन जैनसाधवः पोषिताः / ततो मृत्वा मुखप्रियः भवभ्रमणं कृत्वा सेचनकनामा गजो जातः /