________________ श्रीभावप्रभसूरिकृतम् 47 गोभद्रो दीक्षां लात्वा देवो जज्ञे / अवधिना ज्ञातभवत्रयसम्बन्धिपुत्रत्वेन स्नेहेन भोगसामग्री पूरिता / क्रमेण शालिभद्रो धन्यकश्च दीक्षां गृहीत्वा 'वैभार गिरौ अनशनमादाय 'सर्वार्थसिद्धं' गतौ ‘महाविदेहे' मुक्तिं गमिष्यतः / इति सम्बन्धः संक्षेपतः / इत्येवं सुपात्रदानतो बहवः सम्बन्धा वाच्याः / सुपात्रदानफलम् / यतः "किमप्यतिथिदानस्य, माहात्म्यं सुमहत्तमम् / यत्रान्नमात्रतः स्वर्गा-पवर्गसुखसङ्गमः // 1 // " अनु० इति पद्मानन्दे / अतिथिलक्षणमाह "१तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना / अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः // 1 // " अनु० // इति नवमवृत्तस्यार्थः सम्पूर्णः // 9 // सूत्रम् दानं ददौ सुमुनये क्षुधितोऽपि योऽतो नि:स्वोऽपि भूपतिरभूदिह मूलदेवः / यत् कीचकः श्रयति सार्थकतां नितान्त मन्तर्गतस्य मरुतः स किलानुभावः // 10 // व्याख्या-य: क्षुधितोऽपि सुमुनये दानं ददौ इह-लोके अतः-दानपुण्यात् स मूलदेवः निःस्वोऽपि-निर्धनोऽपि भूपतिः अभूत्-बभूव / दृष्टान्तमाह-यत् कारणात् कीचकः नितान्तं-अतिशयेन सार्थकतां-यथार्थतास्वाभिधेयतां श्रयति / "स्वनन् वातात् स कीचकः" इति हैम ( अभि० का० 4, श्लो० 219) वचनाद् वायुना सच्छिद्रो वंशः शब्दं करोति स कीचक उच्यते / किलेति सत्ये / सः अनुभावः-प्रभावः अन्तर्गतस्य मरुतःवातस्य वर्तते इति // अत्र सम्बन्धः कश्चित् मूलदेवाभिधो राजपुत्रः द्यूतव्यसनित्वात् स्थानभ्रष्टः पर्यटन् कस्याञ्चित् नगर्यां गतः / परं मूलदेवः सकलकलापात्रम् / तेन तत्र तद्गुणरञ्जितवेश्या तत्सङ्गं न त्यजति / परस्परं भृशं प्रीतिर्जाता / ततो निर्द्धनत्वात् तत्कुट्टिन्याऽचलवणिजा सह कृतोपायेन निष्कासितो मूलदेवोऽटवीमुल्लङ्घ्य कस्मिंश्चिद् ग्रामे भिक्षावृत्त्या कुल्माषान् गृहीत्वा यावद् ___ 1. अयं श्लोको योगशास्त्रस्वोपज्ञवृत्ति( प० ५४)-धर्मसङ्ग्रह प० ९)श्राद्धप्रतिक्रमणसूत्रवृत्ति(प० 174) श्राद्धगुणविवरण( प० 45 )प्रमुखग्रन्थेषु दृश्यते /