________________ श्रीजैनधर्मवरस्तोत्रम् वीरस्य केवलोत्पत्तौ चन्दनाया दीक्षा, मृगावतीक्षामणावसरे केवलं क्रमेण (सा) मुक्तिं गतेति सम्पूर्णः प्रबन्धः // // अष्टमवृत्तस्य सम्पूर्णोऽर्थः // 8 // सूत्रम् दारिद्र( )दोषतिमिरैनियमेन मुक्ताः सत्पात्रदानसुदिनोदयसङ्गमाद्याः / पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः // 9 // व्याख्या-सत्पात्रदानेन-साधवे दत्तदानेन सुदिनस्य-सुकृतदिवसस्य उदयो येषां ते एवंविधाश्च ते सङ्गमाद्याश्चेति 'कर्मधारयः' / शालिभद्रपूर्वभवसङ्गमगोपालकप्रभृतयो जीवा दारिद्र( ध्र)दोषतिमिरैर्नियमेन मुक्ताः-त्यक्ताः कैरिव ? चौरिव / यथा चौरैराशु-शीघ्रं पशवः-गवादयो मुक्ताः / कस्मिन् सति ? पृष्ठानुगामिकटके-पृष्ठे शीघ्रगतिगामिनि सैन्ये निकटे-समीपे सति / कथंभूते कटके ? सटङ्के-सकोपे / कथंभूतैः चौरैः ? प्रपलायमानैःकाकनाशं नष्टैः / "टङ्को नीलकपित्थेऽसि-कोशे कोपेऽश्मारणे / मानान्तरे खनित्रे च, जङ्घायां टङ्कणेऽपि च // 1 // ''. अनु० इति हैमानेकार्थः ( श्लो० 24) // अत्र सम्बन्धो लेशतः 'छम्माणि नामग्रामे गोपालनामा एको गोकुलिकः / तस्य स्त्री रमणकी / तयोः पुत्रः मरुकनामा / सिंहेन मारितो गोपालको मृत्वा 'राजगृहे' गोधननामा गोपो जातः / तस्य भार्या नर्मदा / तस्याः कुक्षौ पूर्वभवसम्बन्धी पुत्रो जात): / तस्य सङ्गमक इति नाम / इति जनकसुतयोद्वितीयो भवः // ____ गोधनोऽनेकलोकानां महिष्यश्चारयति / एकदा सन्ध्यायां पश्चाद् वलमान: ‘स्वर्णवालुका'नदीतीरे एकं मुनीश्वरं ददर्श / गृहे समागतस्यापि तस्यैव हदि ध्यानं स्थितम् / अतिप्रभातेऽग्निसम्बलमादाय तटिनीतटे समागतः / तं शीतार्तं दृष्ट्वा अत्यन्तकरुणाईचित्तः शुष्ककाष्ठसञ्चयेनाग्नि प्रज्वाल्य साधोः शीतं व्यपोहयत् / साधुः प्रतिमाप्रतिपन्न: कायोत्सर्गं नापारयत् / साधुवैयावृत्यपुण्यानुमोदनात् प्राप्तोच्चगोत्र एकदा सिंहेन मारितः / मुनेानवशात् मृत्वा ‘राजगृहे' गोभद्रनामा श्रेष्ठी बभूव / सङ्गमस्तु कियति काले सुसाधवे सबहुमानं पायसदानं दत्त्वा मृत्वा गोभद्रभद्रयोः पुत्रः शालिभद्रनामा जातः / इति जनकपुत्रयोस्तृतीयभवः /