________________ 45 श्रीभावप्रभसूरिकृतम् अत्र सम्बन्धलेश:'चम्पा'यां दधिवाहनधारिण्योः सुता चन्दनबाला / इतश्च ‘कौशाम्बी'पतिशतानीकभूपेन 'चम्पा' भग्ना / केनचित् पदातिना चन्दना गृहीता 'कौशाम्बीं' नीता विक्रीता / धनवाहेन श्रेष्ठिना क्रीता, पुत्रीस्थाने स्थापिता / एकदा श्रेष्ठिनः पादप्रक्षालनावसरे चन्दनायाः केशपाशं भूमौ पतितं दृष्ट्वा श्रेष्ठिना तदादाय स्वाङ्के स्थापितम् / तं वीक्ष्य मूला तत्पत्नी क्रुद्धा / एषा वर्धमाना मम सपत्नी भविष्यतीति विचिन्त्य श्रेष्ठिनि हट्टं गते सति तत्केशपाशमपनीय मुण्डितां जञ्जीरितां विधाय शून्यगृहे स्थापयित्वा स्वत एव मरिष्यतीति ध्यात्वा स्वयं पितृगृहं गत्वा तत्रैव स्थिता / दिनत्रयं जातम् / तद्भीत्या' न कोऽपि श्रेष्ठिनः पुरतो वक्ति / यतः "2 मघव दु316, हुं ता२६ जुडा, * ते साती , में ४२ती पी. 1 કંતડો બિચ્ચારો સ્યુ કરઇ, જુ ઘરી હુઇ કુનારિ, उसी वो मागला, अ२७७ डाथ लिप्यार (?) 2" एकया जातकरुणया श्रेष्ठिने कथितम् / तेन समुद्घाट्य तालकं (सा) निष्कासिता। (तस्यै) सूर्पकोणके कुल्माषान् दत्त्वा निगडभञ्जनार्थं लोहकारनयनार्थं गतः श्रेष्ठी / म्लानमुखी चन्दना चिन्तयति-अहो कर्मणां गतिरीदृशी / यदि कोऽप्यतिथिः समेति, तदा तस्मै दत्त्वा पारणं करवाणि / यावत् तस्थौ तावत् महावीर आजगाम / तं च विलोक्य जातानन्दा समुत्थाय प्रोचे-स्वामिन् ! भिक्षां गृहाण / भगवता चिन्तितम्-अभिग्रहपूर्तिर्जाता, परं नेत्रयोः ( नेत्राभ्यां ?) अश्रवो न पतन्ति / देहलीमध्ये पादौ स्तः / न एको बहिरेकोऽन्तः / अतो भगवान् न गृह्णाति / पृष्ठतो बलात् तया दुःखेनाश्रुपातो विहितः / उत्तालतया एकः पादो देहल्याः बहिरेकोऽन्तराजातः / भगवता पारणं कृतं पञ्चदिनोने षण्मासे / पञ्च दिव्यानि जज्ञिरे / वेणीदण्ड: पुनर्नवीनो जातः / निगडे नूपुरे जाते सर्वत्र यशो विस्तृतम् / यतः "पृथ्वीनाथसुता २भुजिष्यचरिता जञ्जीरिता मुण्डिता . क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गता देहलीम् / कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान् दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः // 1 // " शार्दूल० 1. विचार्यताम्-"मान्त्रिका वृश्चिके भग्नाः, क्षये भग्ना भिषग्वराः / पण्डिता मूर्खके भग्नाः, स्त्रीषु भग्नं जगत्रयम् // 1 // 2. तात्पर्यम्-कान्त ! मा घटय कुठारं अहं तव कुठारिका, दन्तैः काष्ठानि पाटयन्ती जिह्वया कुर्वाणा वृतिम् / कान्तकः वराकः किं कुर्यात् यद्गृहे भवति कुनारी.....। 3. 'दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मणौ" इति हैमः (अभि० का० 3, श्लो० 24) / .