________________ 44 श्रीजैनधर्मवरस्तोत्रम् ૧“માલાઈ તું મહિલોઈ નાલઇ તું કો જેહવો, મું વિચિ તું વિચિ જોઈ હું રૂડેરો ઋષભલા //ન.” इति श्रुत्वा बहु धनं ददौ // // इति सप्तमवृत्तस्यार्थः सम्पूर्णः // 7 // अथ सुपात्रदानमाह सूत्रम् वीराय विश्वगुरवेऽकृत चन्दना या कुल्माषदानमनु जातसुखाऽथ तस्याः / . .. मूर्धाऽऽप वेणिरुचिरः श्रियमस्य मौलि ___मभ्यागते वनशिखण्डिनि चन्दनस्य // 8 // व्याख्या–वीरायेति / या चन्दना राजपुत्री दासेन विक्रीता धनवाहेन क्रीता मूलया मुण्डिता देहल्यन्तरस्थिता वीराय-चरमजिनाय कुल्माषदानं-प्रासुकमाषदानं अकृत-चकार। कथंभूताय वीराय ? विश्वगुरवे-त्रिभुवनजनधर्मदैवताय त्रिभुवनताताय वा / कथंभूता चन्दना ? अनु-पश्चात् दानानन्तरं जातसुखा-सर्वाङ्गीणसमुत्पन्नसुखा, सुवस्त्रा सालङ्कारा गतबुभुक्षा जाता / अथान्वादेशे / यत्तदोर्नित्यसम्बन्धात् तस्याः चन्दनायाः मूर्धा-मस्तकं चन्दनस्य मौलि-मस्तकं अभ्यागते-आश्रिते सति, शिखाग्रस्थितमयूरस्य चन्दनवृक्षस्य शोभां जहार इत्यर्थः / इयं चन्दना / अयं चन्दनः / शब्दच्छलोऽपि / कथंभूतो मूर्धा ? वेणिरुचिर:-तत्कालनवीनजातप्रवेणीशोभमानः / "पिच्छं बहँ शिखण्डकम्" इत्यत्र शिखण्डिसार्थकनामा / कविसमये केशपाशस्य बर्हिण उपमा / यदुक्तं माघे "दृष्टै (ष्ट्वे ? )व निर्जितकलापभरामधस्ताद् व्याकीर्णमाल्यकबरां कबरी तरुण्याः / प्रादुद्रुवत् सपदि ३चन्द्रकवान् द्रुमाग्रात् "संझ घ ? )र्षिणा सह गुणभ्यधिकैर्दुरासम् // 1 // " वसन्ततिलका इति सर्गपञ्चमे (श्लो० 19) // 1. तात्पर्यम्-राजसे त्वं महीलोके, नार्पयसि त्वं कीदृक्षः ? / आवयोर्मध्ये पश्य अहं सुन्दर ऋषभक ! / 2. पलायितः / 3. मयूरः / 4. मत्सरिणा /