________________ 43 श्रीभावप्रभसूरिकृतम् इति // * साधवः सार्मिकादयः सर्वेऽपि पोषिता जगडूकेन / ततः सर्वतः सुकालो जातः / गृहपृष्ठवाटके श्वेतार्कं दृष्ट्वा सेवकैः प्रोक्तम्-इतोऽधस्ताद् धनं गृह्यते / किं धनेन ? / माऽभूदस्य विनाशः / वर्षाकाले जलेन समूलमुन्मूलितार्कात् प्रकटितं धनं सप्तक्षेत्रीसात् कृतं जगडूकेन / पुनरेकदा पोतचौरेण 'सिक्थमय्य इष्टिका आनीता राभस्येन क्रीताः / स्वभार्यया तु उपालब्धः, जैनानामेष व्यापारो निषिद्ध इति लोकापवादः / तेन दम्पत्योः परस्परं मुखानवलोकनं जातम् / शीतकाले हसन्त्यां ता मदनेष्टिकाः क्षिप्ता उपरिष्टाज्ज्वलितमदनाः स्वर्णमय्यो जाताः, गुरवे दर्शिताः, धर्ममार्गे व्ययीकारापिताः / इत्येवं जगडूकेन चतुर्विधसङ्केन सह 'शत्रुञ्जया'दितीर्थानां यात्रा कृता, 'भद्रेश्वरे' चैत्यानि कारितानि / धर्मार्थं हट्टो मण्डितः, जैनागमानि लिखापितानि इत्यादीनि बहूनि धर्मकार्याणि चक्रिरे / इति जगडूकप्रबन्धः समाप्तः // कीर्तिदाने यथा 'श्रीशत्रुञ्जय'सङ्घपतितिलकं बिभ्रत् समराह्वयो वणिजां वरः 'सिद्धाचल'मागच्छति तदा चारणकेन प्रोक्तम् / यत: સાહ તું સમરો સાહ, બીજા સર્વ સાહૂલીયા નદી તો ગંગાપ્રવાહ, બીજા સર્વ વાહૂલીયા //ના” तस्मायश्वं ददौ इति सक्षेपतः / अथ पुनः श्रीवस्तुपालः ससङ्घः श्री शत्रुञ्जये' देवान् नत्वा अग्रतश्चलन् ‘देवक पत्तने ययौ / अत्रान्तरे सङ्घमध्ये सोमेश्वरपण्डितेन काव्यमुक्तं वस्तुपालं प्रति / यतः "लक्ष्मि ! प्रेयसि ! केयमास्यशितिता "वैकुण्ठ ! कुण्ठोऽसि ५नो नो जानासि पितुर्विनाशमसमं सोत्थितैः पांशुभिः / माऽभैर्भीरु ! गभीर एष भविताऽम्भोधिश्चिरं नन्दतात् सङ्घेशो ललितापतिर्जिनपतिस्नात्राम्बुकुल्यां सृजन् // 1 // " शार्दूल० ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तम् // पुनरेकदा' ऽर्बुदा'चले गतो विमलवसतिं वस्तुपालस्तत्र चारणेनोक्तम् // यतः 1. मदनमय्यः / 2. तात्पर्यम्-साधुस्तु समरः साधुः अन्ये सर्वे साधुकाः (लघुसाधवः)। नदी तु गङ्गाप्रवाहः अन्ये सर्वे वाहकाः // 3. मुखस्य श्यामता / 4. हे कृष्ण ! 5. अस्माकम् / 6. भविष्यति /