________________ 42 श्रीजैनधर्मवरस्तोत्रम् तदा जगडूकेन रायां( य ? )साधार इति बिरुदं लब्धम् / तदाप्रभृति महाजनेऽपि रायांसाधारबिरुदवान् कथ्यते / चतुरशीतिज्ञातिषु जगडूकरूपकाणि भट्टादिभिः सर्वत्र पठ्यन्ते / एवं जगडूर्जगदुद्धारको जातः // एकदा दुष्टो दुष्कालभिधो व्यन्तरो जगडूसमीपं छलनाय समेतः / स च कीदृग् ? मलिनवेशो बर्बरकेशः सूर्पकर्णः कृष्णवर्णो बीभत्सरूपः पतितनेत्रकूपो बुभुक्षया पृष्ठलग्नोदरः सर्वेषां भयङ्करः प्राह जगडूकम्-भो भो जगडूः ! द्वादश वर्षाणि जातानि क्षुधातुरोऽहम् / तेनोक्तम्भुङ्क्ष यथेष्टम् / दुष्कालेनोक्तम्-यदा धातोऽस्मि तदा त्वहं जितः, अन्यथा मया त्वं जित इति पणबन्धः सौहलिनाऽप्यङ्गीकृतः / ततः स दुष्कालः प्रेतो रङ्कमण्डपाच्छादनकटं स्वकरेणोत्तार्य भोज्यभाजनं तमेव कृत्वा निविष्टः प्रोवाच-अस्मिन्नन्नानि क्षिपता( प्यन्ता ?) मिति / ततो भद्रेश्वरे' चतुःसहस्रमितमहाजनगृहाणि सन्ति, सकलमहाजना आकारिताः / प्रोक्तो जगडूकेन पणबन्धः सः / अतो भो भो भ्रातर: ! अद्य कीदृशा भवन्तु यथा महाजनवचनं जयश्रियं वरति तथा कर्तव्यम् / ततः सर्वेऽपि महाजना: केचन ताम्रकटाहै: केचन कण्डोलकैः केचन पृथुलकपाटफलकैः केचन वस्त्रझोलकैः पक्वापक्वान्नानि लात्वा तत्र क्षिपन्ति / प्रेतोऽपि सर्वमाजहार / कणमपि न मुञ्चति स्म / स वदति स्म-भो जगडू: ! चोप्पडकं देहि-तदा घृततैलकुतुपाः प्रवाहिताः ।यामं यावत् महाजनैः एहिरेयाहिरा क्रिया कृता ।यामोर्ध्वंस भक्षयन् किञ्चिदुद्गरितमन्नं दृष्ट्वा थक्कितोऽधुनासाविति विचार्य तैः समकालं स्थलीकृतोयं, दुर्धरा वाणिजानां हाकहीक्कहक्कोठाः / ततो दग्धोऽहं दग्धोऽहं वदन् पलायमानो जगडूकेन गाढं करेण धृतः ।रेजगत्संहारकारक ! अधुना क्व यासि ? कारागारे क्षिपाम्यहं त्वाम् / स ऊचे-मां मुञ्च, अद्य प्रभृत्यहं मनुष्यलोकं नागमिष्यामि / दक्षिणहस्तार्पणं कृत्वा मुक्तः स्वस्थानं गतः / यतः “સ્વર્ગથકી સંચર્યો, દેશ પુહતો દુકાલહ નિતુ નયર ઉઝડઇ તિહારે તું, વારહ ૫હતી શ્રીમાલહ. भन्ने ज्यो (3?) भादो, ५२तो घीनी वाहूं 55 तो उंग(81?)म, 4 तो ®वतो साई. હું પાપી પડ્યો તું સાહજી મિલ્યો, બોલબંધ ગાઢો કયા. મેહલિ જગડૂયા સાહા સોહલાતણા જે નાવું કાલ બાર(તેર)પનરોત્તરો.” 1. तात्पर्यम्-स्वर्गात् सञ्चलितो देशं प्राप्तो दुष्काल: नित्यं नगराण्युद्वासयति तदा तु व्याहरिका प्राप्ता श्रीमालस्य / अन्नेन करिष्याम्याकुलो धारयन् घृतस्य वाहिकाः ( यद्वा धारास्तु घृतस्य वाहयामि) किंवा तु स्फेटयामि स्थानं किंवा तु जीवन्तं गृह्णामि / अहं पापी पतितस्त्वं साधुर्मिलितो वचनबन्धो गाढं कृतः मुञ्च जगडूक ! साधो ! सोहलतनय ! यत् नागमिष्यामि कालः त्रयोदशः पञ्चदशोत्तरः /