________________ श्रीभावप्रभसूरिकृतम् 41 तैर्धान्यैः प्रौढकोष्ठका भृताः / देशप्रदेशेषु सर्वत्र धान्यसञ्चायान् कारयित्वा एते रङ्कनिमित्ता इति ताम्रपत्राणि लिखित्वा सर्वत्र धान्येषु क्षिप्तानि / ततः कियति काले गते विकराले दुष्काले पतिते 'खादतपिबता क्रिया नष्टा, भर्चा स्त्री मुक्ता, स्त्रिया भर्ता मुक्तः, शिशवोऽपि विक्रीता इत्यादि / सर्वत्र सीदनकालो जातः / तदा जगडूकेन सर्वत्र दानशाला मण्डापिताः / प्रचुराणि सस्यानि दीयमानानि रङ्केभ्यः / भूपैर्धान्यार्थं जगडूको याचितःसुवर्णमाणिक्यादिकं गृहाण, परं सीत्यं समर्पय / तेनोक्तम्-रसात्कृतं सर्वं युष्माभिरपि तदादीयताम्, तैर्बुभुक्षावशतस्तथैव कृतम् / यतः "४अट्ठ य मूब ड) सहस्स दिद्ध वीसल वडवीरह बार मूबि ड) सहस्स दिद्ध सिंधूया रायहमीरह / गज्जणवइ सुलताण दिद्ध मूवि ड) सहस्स एकवीसह मालवपति अढार प्रतापसीहराय सहस्स बत्तीसह / शत्रुजय रइवयगिरि दानशाला बारोत्तरी( रइ ?) जगडूया साहा सोहलातणा पुण्यप्रसिद्ध राषी (तेर) पन्नरोत्तरइ // 1 // 5 . 1. खादत पिबत इति यस्यां क्रियायां सा खादतपिबता, तिङ्न्तेन सह समासः / 2. 'दीयमानानि दीयमानानि' इति क-पाठः / 3. धान्यम् / 4. तात्पर्यम्-अष्ट च मूटकसहस्राणि दत्तानि वीसलाय वडूवीराय द्वादश मूटकसहस्राणि दत्तानि सैन्धवीयराजमहम्मीराय / गर्जनपतये सुरत्राणाय दत्तानि मूटकसहस्राणि एकविंशतिः मालवपतये अष्टादश प्रतापसिंहाय राज्ञे सहस्त्राणि द्वात्रिंशत् / शत्रुञ्जयरैवतगिर्योर्दानशाला द्वादशोत्तरं (शतम्) / जगडूना साधुना सोहलतनयेन पुण्यप्रसिद्धी रक्षिता (त्रयोदशे) पञ्चदशोत्तरे // 1 // 5. सन्तुल्यतां श्रीसर्वानन्दसूरिरचितस्य जगडूचरितमहाकाव्यस्य षष्ठसर्गस्य निम्नावतारितपद्यैः "जगौ वीसलदेवाय, जगडूरिति पर्षदि / तन्मये पापं म्रियन्ते, चेज्जना दुर्भिक्षपीडिताः // 89 // दादावष्ट सहस्राणि, स तस्मै कणमूटकान् / श्रीमालान्वयकोटीर-स्त्रिधा वीरत्वमाश्रितः // 10 // स द्वादश सहस्राणि, प्रददौ कणमूटकान् / हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे // 125 // स ददौ गर्जनेशाय, भोजदीताय सत्वरम्। . सद्धान्यमूटकानां, च, सहस्राण्येकविंशतिम् // 126 // अष्टादश सहस्राणि, स ददौ कणमटकान् / भपायावन्तिनाथाय, तदा मदनवर्मणो // 127 // राज्ञे प्रतापसिंहाय, काशीनाथाय सोलभूः / द्वात्रिंशतं सहस्त्राणि, प्रददौ कणमूटकान् 128 // द्वादशाभ्यधिकं दान-शालाशतमुदारधी: जगडूः सुकृताधारो, जगज्जीवातुरातनोत् // 129 // "