________________ 37 श्रीभावप्रभसूरिकृतम् दीक्षायां जातः / तदा मेघमुनिनाऽभिग्रहो गृहीतः-नेत्रद्वयशुश्रूषां मुक्त्वा स्वाङ्गशुश्रूषां न करिष्यामीति / प्रान्तेऽनशनं कृत्वा 'विजय'विमानं गतः / 'महाविदेहे' मोक्षमवाप्स्यतीति // इति मेघकुमारकथा / इति पञ्चमवृत्तस्यार्थः सम्पूर्णः // 5 // सूत्रम् मांसं समर्घमधुनेति वचो निशम्य तस्याप्त्युपायमभयेन विधाय चोक्ताः / . कुर्वन्ति तां न हि ययाऽहह राजलोका जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि // 6 // व्याख्या-मांसमिति / वा समुच्चये, ननु वितर्के निश्चये वा, अहह इति खेदे / अभयेनश्रेणिकपुत्रेण राजलोका:-क्षत्रिया उक्ता-निरुत्तरीकृताः / किं कृत्वा ? इति वचो निशम्यश्रुत्वा / इतीति किं ? अधुना मांसं समर्घ-सुलभं-अल्पमूल्यं च-पुनः तस्य मांसस्य आप्ते:-प्राप्तेः उपायं-उद्यमं विधाय-कृत्वा / कथं प्रोक्ताः तदाह-[ अहह इति खेदे ] भवन्तो राजलोका यया गिरा-वाण्या जल्पन्ति तां गिरं न हि कुर्वन्ति / कथंभूताः राजलोकाः ? पक्षिणः अपि-पक्षयुक्ता अपि / पक्षः साध्यः पक्षग्रहो वा // "पक्षस्तु, मासार्धे ग्रहसाध्ययोः / चुल्लीरन्ध्रे बि( ब )ले पार्श्वे, सख्यौ (वर्गे) केशात्परश्चये / ... ..पिच्छे विरोधे देहाङ्गे, सहाये राजकुञ्जरे // " इति हैमानेकार्थः (श्लो० 568-569) / पक्षः अस्ति येषां ते पक्षिणः, पक्षवचनयुक्ताः / यतः 'प्रतिज्ञाहे तु दृष्टान्तो पनयनि गमनानि इति पक्षवचनम् / प्रतिज्ञापर्वतोऽयं वह्निमान् 1 / धूमवत्त्वात् 2 / यो यो धूमवान् स स वह्निमान् यथा महानस इति 3 / यथा धूमवांश्चायमिति तथा चायमिति वा 4 / पक्षे साध्योपसंहारो निगमनं यथातस्मादग्निमानिति तस्मात् तथेति वा 5 / इति पञ्चावयवं वाक्यं प्रसिद्धम् / यथा सत्तार्किकाः पञ्चावयववाक्यसाधनेऽलीका न भवन्ति अपि-पुनः भवन्तः क्षत्रियाः पक्षिणोऽपि मांसं समर्घमित्यङ्गीकृतवचना अपि कूटभाषिणो भवन्ति / अर्थद्वारेण स्पष्टयति-'राजगृहे' सभास्थितेन श्रेणिकनृपेणोक्तम्-सम्प्रति नगरमध्ये किं वस्तु सुलभमस्ति ? / तत्र क्षत्रियाः प्रोचुः-मांसं समर्घमस्ति / अभयकुमारेण चिन्तितम्-एते निर्दयाः, एतेषां परीक्षां करिष्यामि / ततो रात्रौ सर्वक्षत्रियगृहे पृथक् पृथग् गत्वा अभय एवमकथयत्