________________ 38 श्रीजैनधर्मवरस्तोत्रम् भो क्षत्रियाः ! शृणुत / राजपुत्रशरीरे महाव्याधिरुत्पन्नोऽस्ति, वैद्यैरुक्तम्-यदि मनुष्यसत्ककालेयमांसटङ्कद्वयं दीयते, तदा स जीवति, नान्यथा / ततो यूयं तदीयग्रासजीविन एतावदपि न करिष्यथ ? / तत एकेनोक्तम्-दीनारसहस्रं गृहाण, परं मां मुञ्च, अन्यत्र गच्छ / अभयेन गृहीतम् / एवं सकलां रात्रिं परिभ्रम्य तैर्दत्ता मिलिता दीनारलक्षाः / प्रभाते तद्धनराशीकृतं दर्शितं क्षत्रियाणाम्-भो यूयमेवमकथयत गतदिवसे-यन्मांसं सुलभं, तदद्य एतावता द्रव्येणापि टङ्कद्वयप्रमाणं मांसं मया न प्राप्तम् / ततो लज्जिता अभयेन हक्किता मांसभक्षणनियमं ग्राहिता इति युक्तिः सम्पूर्णा / षष्ठवृत्तस्यार्थः सम्पूर्णः // 6 // अथानुकम्पादिकदानमाश्रित्याहसूत्रम् सदृष्टिपूर्वककृतांहतियुग्ममस्तु ____ हे भव्य ! भव्यतरमन्यदपि प्रधानम् / जन्तून् करोति सुखिनस्तपतापतप्तान् प्रीणाति पद्मसरसः सरसोऽनिलोऽपि // 7 // अत्र सूचीकटाहन्यायेन संक्षेपत्वादनुकम्पादिदानं सुपात्रदानात् प्रथमं कथयतिव्याख्या हे भव्य ! सदृष्टिपूर्वककृतांहतियुग्मं अस्तु-दूरे तिष्ठतु / सम्यक्त्वपूर्वककृतं अंहत्या: अभयसुपात्रदानयोर्युग्मम् / “अपवर्जनमंहतिः" इति हैमः (अभि० का० 30, श्लो० 51) / कथंभूतं सदृष्टि० ? भव्यतरं-अतीव शुभं, मोक्षप्रदायकत्वात् / हे भव्य ! अन्यदपिअनुकम्पादिदानमपि जन्तून् सुखिनः-देवादिसुखयुक्तान् करोति / कथंभूतमन्यद् दानम् ? प्रधानं संसारसुखापेक्षया / यतः पद्मानन्दकाव्ये त्रयोदशे सर्गे "कञ्चनापि क्षुत्तृटक्लान्तं, २प्राप्तमन्नोदकैर्मुदा / यस्तर्पयति सर्पन्ति, स्वर्भोगास्तमपि ध्रुवम् // 1 // " दृष्टान्तेन दृढयति / पद्मसरसोऽनिलो-वायुरपि तपतापतप्तान्-ग्रीष्मकालस्य तापेन तप्तान्-पीडितान्, विशेषणशक्त्या विशेष्यः प्रतीयते, पान्थजनान् प्रीणाति-प्रीतिमुत्पादयति / कथंभूतो वायुः ? सरसः-सजलः / यतो मानससरोजलं सेवितं सत् तृट्तापमलपरिश्रमादिसर्वं स्फेटयति, तथा पूर्वदानद्वयं सकलसंसारदुःखापहारि इति / अन्यत् तु भोगाय भवति / अत्र गाथा: 1. मनुजहृदयमांसटङ्कद्वयम् / 2. गृहमागतम् /