________________ 34 श्रीभावप्रभसूरिकृतम् "आख्याहि भद्रे ! प्रियदर्शनस्य ___ न गङ्गदत्तः पुनरेति कूपम् / बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति // 1 // " उपजाति: इति / स्वचिन्तितं कथयित्वा हे सारिके ! त्वयाऽपि तस्य विश्वासो न कर्तव्य इत्याख्यानकेन / एवं राजन् ! क्षुधार्तोऽहं कृत्याकृत्यं न वेद्मि, आहारं विना मम प्राणा व्रजन्ति / नृपेणोक्तम्-अन्यमाहारं ददामि / तेनोक्तम्-१आमिषं विना मे न तृप्तिः / (नृपेणोक्तम् ) सूनास्थानात् तदप्यानाय्य दास्यामि / (पक्षिणोक्तम् ) नैवं गृह्णामि, चेत् मम पश्यतः प्राणिनो मांसं छित्त्वा दीयते, तदा मे तृप्तिः / राज्ञोक्तम्-यत्प्रमाणोऽयं पक्षी तुलाधृतो भवेत्, तावन्मानं निजं मांसं यच्छामि, काऽत्र विचारणा ? / निजमांसं छित्त्वा यथा यथा तुलायां चिक्षेप तथा तथा पारापतोऽधिकभारो बभव / तदा तलायां स्वयं नप आरुरोह / हाहाकारो जातः / तत्सत्त्वं वीक्ष्य देवः प्रत्यक्षो जातः, धन्यस्त्वं महीपते ! ईशानेनन्द्रवचसाऽश्रद्दधानस्तव परीक्षार्थं समागतः पूर्वं मत्सरिणौ खगौ मयाऽधिष्ठितौ इति उक्त्वा गतः स्वस्थानं सुरः // इति कथानकं मेघरथनृपस्य समाप्तम् / इति चतुर्थवृत्तस्यार्थः सम्पूर्णः // 4 // सूत्रम् संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन / माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? // 5 // व्याख्या–संरक्षित इति / हि-निश्चितं येन मेघाभिधेन-मेघकुमारेण अस्मात् तृतीयगजभवे शशकः संरक्षित:-दयापरिणामत्वेन पालितः / किंविशिष्टेन मेघाभिधेन ? मगधाधिपदेहजेन-मगधदेशस्वामिश्रेणिकपुत्रेण / इह-लोके कः पुरुषः तस्य मेघकुमारस्य माहात्म्यमानं-महत्त्वसङ्ख्यां करोतु ? अपि तु न कोऽपि / वा इति पक्षान्तरे / को नरः अम्बुराशेः-समुद्रस्य विस्तीर्णतां कथयति स्वधिया ? अपि तु न कोऽपि / यदि कथयति, तदा सर्वज्ञवचसा / यतो द्विलक्षप्रमितो लवणोद इति परं स निजधिया ज्ञायते नेति / वा 1. मांसम् /