________________ 34 श्रीजैनधर्मवरस्तोत्रम् अथ तयोर्मध्ये प्रथममभयदानमाश्रित्याहसूत्रम् पारापतं धृतमते ! बत शान्तिनाथः श्येनाद् ररक्ष गतजन्मनि ते तदीयाः / / गण्या गुणा गुरुकृपोज्ज्वलिताः कथं स्यु ीयेत केन जलधेर्ननु रत्नराशिः ? // 4 // व्याख्या-पारापतमिति / धृता मतिर्येन स तस्य सम्बोधने हे धृतमते ! / बत कोमलामन्त्रणे / शान्तिनाथ:-तीर्थकृतां षोडश: गतजन्मनि-पूर्वभवे मेघरथनृपोपलक्षिते श्येनात्-सिञ्चाणकात् पारापतं-कपोतं ररक्ष-रक्षीचकार, स्वशरीरदानेनेति शेषः / तस्य शान्तिनाथस्य इमे तदीयाः ते-प्रसिद्धाः गुणाः कथं गण्या:-सङ्ख्येयाः स्युः ? अपि तु न स्युः / कथंभूताः ? गुरुकृपोज्ज्वलिता:-महत्कृपाकषशिलोत्तेजिताः / अत्र दृष्टान्तमाहननु प्रश्नवादे केन-पुरुषेण जलधेः-समुद्रस्य रत्नराशिर्मीयेत-मानयुक्तः क्रियेत ? अपि तु न मीयेत // अत्र श्रीशान्तिनाथस्य पूर्वदशमभवमेघरथनृपसम्बन्धो लिख्यते 'जम्बूद्वीपप्राग्विदेह पुष्कलावती विजये 'पुण्डरीकिण्यां. नगर्यां तीर्थङ्करघनरथाभिधस्य प्रीतिमत्यां राज्यां कुक्षिशुक्तौ दशमभवे श्रीशान्तिनाथजीवो मौक्तिकमिव समुत्पन्नः / मातापितृभ्यां मेघरथ इति नाम दत्तम् / क्रमेण सकलकलाकोविदो यौवनं प्राप्तः परिणायितः, क्रमेण राजा जातः / कस्मिंश्चिद् दिने स पौषधं गृहीत्वा पौषधशालायां तस्थौ / समस्तभूपानां पुरः धर्मदेशनां विदधे / अत्रान्तरे मेघरथभूपतेः 'क्रोडे कम्पमानशरीर: पारापत: पक्षी गगनादकस्मात् पतितः, तवाहं शरणागत इति 'जल्पंस्तस्थौ / तं पक्षिणं भयभीतं दृष्ट्वा दयालु#घरथः प्रोचे-मम समीपे तव भयं नास्ति / हे भद्र ! मा भैषीः। तावत् पृष्ठि (ष्ठ)तः सिञ्चाणकपक्षी समागत्य राजानं बभाण-राजन् ! त्वदुत्सङ्गगतमेतं पारापतं मम क्षुधितस्य देहि / भूपो वक्ति-शरणागतो मया क्षत्रियेण न दीयते, परप्राणैर्निजप्राणपोषणं तवाप्ययुक्तम्, यतो जीववधाज्जीवा नरकं गच्छन्ति / श्येनो जगादयद्येवं, तदा पारापतमिव मां त्वं रक्ष / अहं क्षुधातुरोऽस्मि / "विवेको हीर्दया धर्मो, विद्या स्नेहश्च सौम्यता / सर्वं च जायते नैव, क्षुधार्तस्य शरीरिणः // 1 // " अनु० कूपाश्रितः प्रियदर्शननामसर्पो गङ्गदत्ताभिधानभेकश्च चित्रलेखा सारिका च एषां कथानकम् / यतः 1. उत्सङ्गे।