________________ 33 श्रीभावप्रभसूरिकृतम् "धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान् मम हेमजन्मनः / तवार्णवस्येव तुषारशीकरै भवेद मीभिः कमलोदयः कियान् ? // 1 // " ३वंशस्थविलम् पदे पदे सन्ति भटा रणोद्भटा __ न तेषु हिंसारस एष पूर्यते // धिगीदृशं ते नृपते ! कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि // 2 // वंशस्थ० फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः / त्वयाऽद्य तस्मिन्नपि "देहधारिणा कथं न पत्या धरणी 'हृणीयते ? // 3 // " वंशस्थ० अथात्रैव ( स० 2, श्लो० 9-10) विरोधमाह• "मृगया न विगीयते नृपै रपि धर्मागममर्मपारगैः / स्मरसुन्दर ! मा यदत्यज स्तव धर्मः सदयोदयोज्ज्वलः // 1 // “वैतालीयम् अबलस्वकुलाशिनो झषान् निजनीडद्रुमपीडिनः खगान् / अनवद्यतृणार्दिनो मृगान् . मृगयाऽघाय न भूभृतां जताम् // 2 // " वैता० // इति तृतीयवृत्तार्थः सम्पूर्णः // 3 // 1. अमीभिः पक्षैः, पक्षे तुषारशीकरैः / 2. कमलाया-लक्ष्या उदयः, पक्षे कमलस्य-जलस्य उदयः। 3. वंशस्थविल-लक्षणम्-"वदन्ति वंशस्थविलं जतौ जरौ / " 4. 'दण्डधारिणा' इति ख-पाठः / 5. लज्यते / 6. अवगण्यते / 7. दयाया उदयेन-उत्पत्त्या उज्ज्वल:शोभमानः / 8. वैतालीय-लक्षणम्-"षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनर्नो निरन्तराः / न समाऽत्र परश्रिताः कला वैतालीयेऽन्ते रलौ गुरुः // 1 // " अत्र सुन्दरीच्छन्द इत्यपि वक्तुं शक्यते, यतः "अयुजोर्यदि सौ जगो युजोः सभरा ल्गौ यदि सुन्दरी तदा / " 9. मीनान् /