SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 32 श्रीजैनधर्मवरस्तोत्रम् "मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने / द्राक्षाखण्डं शर्करां चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण( सिंहेन ?) दृष्टः // 1 // " शालिनी नास्ति पुण्यपापपरलोकादिकमिति बहुशः कथयति धर्माभिमुखमश्वग्रीवं प्रति / इतः 'पोतनपुर स्वामिप्रजापतिपुत्रेण त्रिपृष्टकुमारेण हतोऽसौ सप्तमी पृथ्वी जगाम / हरिश्मश्रुरपि मृत्वा तत्रैव नारको जातः / ततोऽसौ नारकोऽश्वग्रीवनारकमवधिना ज्ञात्वा पूर्व धर्मविरोधित्वात् पीडयति स्म / ततः आयुःक्षयेऽसौ नास्तिकनारको मत्स्यो जातः / ततः षष्ठ्यां भुवि नारकः, तत उरगः, ततः पञ्चम्यवन्यां, ततः शार्दूलः, ततश्चतुर्थ्यां गतः, ततः कङ्कपक्षी, ततस्तृतीयावनौ नारकः, ततः सरीसृपः, ततो द्वितीयावनौ नारकः, ततः संज्ञी पञ्चेन्द्रियः, ततो रत्नप्रभायां जातः, ततः पञ्चेन्द्रियतिर्यग् जातः, ततः चतुरिन्द्रियः, ततः त्रीन्द्रियः, ततः चतुरिन्द्रियः, ततः त्रीन्द्रियः, ततः चतुरिन्द्रियः, ततो जीर्णमहिष्यां वत्सो जातः, ततः छगलो जातः, ततः कामदेवश्रेष्ठिनो महिषो जातः दण्डकेन गोपेन मारितो जातमात्रः / एवं सप्तवारान् मारितः / अष्टमवारे महिष उत्पन्नजातिस्मरणो जीविताभिलाषी दण्डकपादे पतितः / तत्रैकः साधुरागतो दण्डकेन पृष्टः-भगवन् ! केन हेतुना जातमात्रः "सैरिभः स्तन्यानभिलाषी मम पादे पतितोऽस्ति ? / ततोऽवधिज्ञानिना यतिना प्रोक्तम्-हे दण्डक ! त्वया सप्त वारान् ५कासरोऽयं मारितः, अधुना जातिस्मृतिर्जीवितं मार्गयति / साधुवचनात् ततस्त्वयाऽभयं दत्तम् इत्यादि प्रतीतम् / प्रान्ते प्रधानेन सम्बोधितः प्राप्तसम्यक्त्वः कालं कृत्वा लोहिताक्षो देवो जातः / अथ सोऽश्वग्रीवो महारम्भादिसक्तो हरिश्मश्रुमतेनाकृतधर्मो मृतः सप्तम्यवनौ नारक इत्यादि बहुसंसारभ्रमणं कृत्वा इह मृगध्वजकुमारः सञ्जातः प्रधानेन प्रतिबोधित इत्येवं केवली जातः / इति वृत्तान्तं श्रुत्वा समुत्पन्नवैराग्यो जितशत्रू राजा पुत्राय राज्यं दत्त्वा सपरिवारोऽमात्येन सह दीक्षां लाति स्म / लोहिताक्षेण कामदेवाय बहुद्रव्यं ददे / पुनरुक्तं च-भुवनं कारयेति / ततः कामदेवेन मृगध्वजस्य भगवत आयतनं कारितम् / मध्ये मुनिप्रतिमा त्रिपादमहिषमूर्तिः सकललोकप्रतिबोधार्थं विहिता / गता परिषत् स्वभवनम् / मृगध्वजकेवली मुक्तिं जगाम // ___इति जीववधे जैनप्रधानविवेकविराजितमृगध्वजकुमारमहिषकथानकं वसुदेवहिण्डिसप्तदशबन्धुमतीलम्भात् श्रीभावप्रभसूरिणोद्धृतं समाप्तम् // ___ यद्यपि परदर्शनकविर्दयां वर्णयति, तथापि तस्य वाक्ये विरोधः परस्परं दृश्यते / तदाह नैषधे ( स० 1, श्लो० 130, 132 133), यथा 1. महावीरजीवेन / 2. सर्पः / 3. प्रथमनरके / 4. महिषः / 5. महिषः /
SR No.004432
Book TitleJaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhadrankar Prakashan
Publication Year2007
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy