________________ 30 श्रीजैनधर्मवरस्तोत्रम् અર્થિ–વાચકજનને વ્યથા-પીડાને પાર પમાડે તેહનું નિદાન-કારણ એહવું દાન છે જેહનું અને નકાર કહિતાં નથી એવો જે નાકારો તેહનું કારાગૃહ કહિતાં બંદિષાણું છે, એહવું જે ચિત્ત તેહનૈ વિષે વૃત્તિ-વ્યાપાર છે જેહનો અને દેવા યોગ્ય અદેવા યોગ્ય પોતાનું પારકું એહવે ભેદે રહિત એહવો જે દાતારી પુરુષ તે(હને) વિમુક્ત કહિતાં નિઃસ્પૃહ જે યોગીન્દ્ર સરીષાને પણિ (1) मानव-सा२वा योग्य छ-प्रशंसवा योग्य (छ). // इति दातृलक्षणं सामान्यम् // अथ काव्यम् "धर्मो हि जीवः शुभशर्मलक्ष्म्या ___ धर्मस्य जीवः खलु जीवरक्षा / सर्वप्रकारैस्तदियं प्रपाल्या धर्मं विना नैव शुभोपलब्धिः // 1 // इन्द्रवज्रा अथात्र अभयादिदानाधिकारे जैनो वेत्ति नापरः, अतो जैनमन्त्रिदृष्टान्तमाह 'श्रावस्ती 'नगरे जितशत्रुनामा राजा / तस्य कीर्तिमती देवी / तयोः पुत्रः मृगध्वजनामा कुमारो विनीतो विचक्षणोऽस्ति / तस्मिन्नेव पुरे राज्ञो वल्लभः कामदेवनामा श्रेष्ठी शरत्काले निजगोकुले गतः / गोपाधिपेन दण्डकेन नाम्ना सङ्केतित एको महिषः शीघ्रं श्रेष्ठिसमीपमाजगाम / गोपेन प्रोक्तः-भो महिष ! मम तव च स्वाम्ययं समागतः / ततो महिषः श्रेष्ठिपादयुगे विनयेन पतितोऽग्रजिह्वां विस्तारयन् स्थितः / श्रेष्ठिना गोपः पृष्टःकिमिदम् ? / ततो गोपोऽवदत्-स्वामिन् ! साधुवचनेन मरणभीरोर्महिषस्य मया अभयं दत्तम् / इदानीं युष्माकं समीपेऽभयं याचत्ययम् / श्रेष्ठिना चिन्तितम्-अहो तिर्यग्जातिरपि वराक एष जीवितप्रियो जातिस्मरणो विद्यते, अतो मयाऽपि तेऽभयं दत्तम् / विहर यथेष्टं गोकुले / श्रेष्ठिनाऽप्युक्ते सति ततः श्रेष्ठिचरणाद् भद्रकमहिष उत्थितः / श्रेष्ठी स्वगृहं समेतः / भद्रकमहिषोऽपि श्रेष्ठिकिङ्करैर्निवार्यमाणोऽपि श्रेष्ठ्यनुज्ञया पृष्ठसंलग्न आगतवान् / ततः श्रेष्ठी कौटुम्बिकनरान् प्राह-भो जातिवल्लभ ! किशोरस्य या वृत्तिः सा तावती भद्रकमहिषस्यापि देया / पत्रवत पालयति / श्रेष्ठी एकदा राजसमीपं गच्छति स्म / महिषोऽपि श्रेष्टिना सह गतः, राज्ञः चरणे पतितः / राज्ञा पृष्टम्-किमिदं ? किमर्थम् ? / श्रेष्ठी भूपं प्राह-अयं भद्रको भवतां पार्श्वेऽभयं मार्गति / राज्ञोक्तम्-दत्तं, हे भद्रकलुलायरे ! यथेष्टं विचर वने पुरे वा। राज्ञा पुरे सर्वत्रोद्घोषणा कारापिता-योऽस्य ३महस्यानिष्टं करिष्यति, स राज्ञो वध्यो ज्येष्ठपुत्रोऽपि / ततो नृपस्य प्रणामं कृत्वा राजभवनान्निर्गतो जने च प्रकाशो जातः सत्यं भद्रक इति / नगरडिम्भास्तं समारूढाः क्रीडां कुर्वन्ति / आलेख्यमय इव तेषां सदंशभीरुको जातः / एवं व्रजति काले एकदा उद्यानादगच्छन् मृगध्वजकुमारस्तं भद्रकं सञ्चर 1. आजीविका / 2. महिष ! / 3. महिषस्य / 4. महिषः /