________________ श्रीभावप्रभसूरिकृतम् अथ पात्रलक्षणमाह "ज्ञानं क्रिया च द्वयमस्ति यत्र तत् कीर्तितं केवलिभिः सुपात्रम् / श्रद्धाप्रकर्षप्रसरेण दानं __तस्मै प्रदत्तं खलु मोक्षदायि // 1 // " इन्द्रवज्रा १अथो देशविरतिः "संवेगनिर्वेदशमानुकम्पा स्तिक्याङ्कसम्यक्त्वमुपाश्रितानाम् / इयं तु देशा( द्) विरतिर्यतित्वा नुरागभाजां गृहमेधिनां स्यात् // 1 // उप० २उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिया / अविरयसम्मट्टिी, जहन्नपत्तं मुणेयव्वं // 2 // " आर्या अथानुकम्पालक्षणमाह- "अनुकम्पाऽनुकम्प्ये स्याद्, भक्तिः पात्रे तु सङ्गता / अन्यथाधीस्तु दातॄणा-मतिचारप्रसञ्जिका // 1 // " अनु० અનુકંપા કરવા યોગ્ય જીવને વિષે અનુકંપા કહી, અને પાત્રને વિષે ભક્તિ કહી, અન્યથા કહિતાં પાત્રને વિષે અનુકંપા કહીઇ તો અતિચાર લાગે ઇતિ // "दीनादिकेभ्योऽपि दयाप्रधानं दानं तु भोगादिकरं प्रधानम् / दीक्षाक्षणे तीर्थकृतोऽपि पात्रा पात्रादिचर्चां ददतो न चक्रुः // 1 // " इन्द्रवज्रा श्रीमहावीरेण द्विजाय वस्त्रदानं कृतम् / सुहस्तिसूरिणा रङ्के अन्नदानं कृतम् / “अर्थिव्यथापारनिदानदानो नकारकारागृहचित्तवृत्तिः / अदेयदेयस्वपरप्रभेदमुक्ता विमुक्तैरपि किं न मान्यः ? // 1 // " उपजातिः 1. 'अथ' इति ख-पाठः / 2. छाया-उत्तमपात्रं साधुर्मध्यमपात्रं च श्रावका भणिताः / अविरतसम्यग्दृष्टिर्जघन्यपात्रं ज्ञातव्यम् //