________________ 28 श्रीजैनधर्मवरस्तोत्रम् अभयदानं सुपात्रदानमित्यर्थः / तु-पुनः कृपादिपदतः त्रिविधं दानम्-अनुकम्पादानम् उचितदानं कीर्तिदानं इति त्रिकं भुक्त्यै-भोगाय भवति / अत्र-लोके जैनो-जैनगीतार्थों वेत्ति / एतद् विवेचनं सर्वं जानाति / परो मिथ्यात्वी न वेत्ति / अत्र दृष्टान्तेन द्रढयति / किलेति सत्ये / नव्यनेत्रः-प्रशस्यचक्षुः पुरुषः धर्मरश्मे:-श्रीसूर्यस्य रूपं किं नहि प्ररूपयति ? अपि तु कथयत्येव / नहि इति ब्यक्षरमखण्डमव्ययम् / इति सूत्रार्थः // अथाभयदानलक्षणमाह "त्रिधा मनोवाक्तनुभिस्त्रिथैषु स्वान्यानुमत्या करणादिभिश्च / यद् वर्जनं जीवगणे वधस्य जिनैस्तदेवाभयदानमुक्तम् // 1 // उपजातिः यद् वय॑तेऽमीषु वधस्त्रिधा तत् __पर्यायनाशादथ दुःखक्लृप्तेः / मनोऽतितो वा त्रिजगत्प्रियं तत् तीर्थङ्करेणाभयदानमुक्तम् // 2 // उप० धन्येन येनाभयदानमङ्गि व्रजाय दत्तं किल तेन तस्मै / किं किं न दत्तं यदहो त्रिलोक्यां / न जीवितादिष्टतमं समस्ति // 3 // उप० सर्वेऽपि जीवाहृतयोऽत्र जीवा स्ततो मिथोऽप्यस्ति भयं न केषाम् / ' तद् येन भेजे विरतिस्त्रिलोक्यां तेनाभयोद्घोषणमेव तेने // 4 // उप० वित्तादिदानप्रभवे (वा) भुवोऽन्तः परोपकारा न कति प्रतीता: ? / अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयार्पणैः किम् ? // 5 // उप० पितुः कलाधातुरमीतिदातु र्मातुश्च किं प्रत्युपकारकुर्म( खर्म?) / इति स्मरन्तो हृदि केऽपि खेदं तदंहिभक्त्यैव यदि क्षिपन्ति // 6 // " उप० 1. जीवा आतिः-आहारो येषां ते /