________________ 27 श्रीभावप्रभसूरिकृतम् वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् // 1 // " १पादाकुलकम् मुखं लोलल्लालं विगतदशनास्तेऽपि दशना ___ न विस्पष्टा दृष्टिर्जितसितकर: केशनिकरः / गतप्राणः पाणिर्वपुरुपचितास्थिस्थपुटितं न मृग्यं वैराग्यं तदपि कपिलोलेन मनसा // 2 // शिखरिणी पुरीषशूकरः पूर्वं, ततो मदनगर्दभः / जराजरद्गवः पश्चा-न्न कदापि पुमान् पुमान् // 3 // " अनु० ततो विषयान् मुक्त्वा नित्यमर्हन्तमेव ध्यायति स्म / यतः . "नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी . शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् / वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः ___ सत्पुत्रेण कुलं नृपैर्वसुमती लोकत्रयं चाहता // 1 // " शार्दूल० इति / प्रान्ते समाधिना. कालं कृत्वा सौधर्मे द्वौ देवौ जातौ, क्रमेण सिद्धि गमिष्यत इति धर्मसामग्रीप्राप्त्यधिकारे हरिटाकसञ्चयकथा सम्पूर्णा // // इति वृत्तद्वयस्यार्थः सम्पूर्णः // 2 // अथ दानद्वारमाहसूत्रम् दानं द्विधाऽभयसुपात्रगतं सुपोष्यं मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै / जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो रूपं प्ररूपयति किं किल घर्मरश्मेः ? // 3 // व्याख्या-अभयसुपात्रगतं द्विधा दानं कर्तृपदं सुपोष्यं सत् मुक्त्यै-मोक्षाय भवति / अभय च सुपात्रं च तयोः समाहारः अभयसुपात्रम्, तद् गतम्-आश्रितं, कर्तरि क्तः / 1. पादाकुलक-लक्षणम्-"यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् / अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् // 1 // " 2. विगतचर्वणाः / 3. जलम् / 4. कमलैः /