________________ 26 श्रीजैनधर्मवरस्तोत्रम् लोकनाथपुत्री लोकनाथपुत्राय योग्या भवतीति लोकोक्तिसमाना युक्तिरुक्ता / परं श्वशुरेण ज्ञातं-कणवृत्तिविप्रो महान् पण्डितो वर्तते / योग्योऽयं मम दुहितुर्भर्ता / यतः “विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन / / स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते // 1 // " अनु० ततः केवलिनं वन्दित्वा सञ्जातहर्षोत्कर्षो नृपो जामातरं दुहितरं (च) पश्चात् स्वगृहं नीत्वा सविशेषं विवाहोत्सवं कृत्वा बहीर्लक्ष्मीस्तावुष्ट्रौ च समर्प्य मम पुत्र्याऽनया त्वं शुभ( ? ) इत्याशिषं ददौ / यतः "जैनो धर्मः शुभति (?) दयया न्याय्यलक्ष्म्या विवेकः शुद्धो बोधः परिणतगिरा तत्त्ववृत्त्या च मोक्षः / क्षान्त्या साधुः स्फुरति नृपतिः सेनया धैर्यबुद्ध्या वीरस्तद्वत् त्वमिह सुचिरं नन्द बिभ्रन्नवोढाम् // 1 // " २मन्दाक्रान्ता हे पुत्रि ! त्वं कुलस्त्रीत्वं भज, यतः "शयिते दयिते शेते, तस्मात् पूर्वं तु बुध्यते / भुङ्क्ते भुक्तवति ज्ञाते, सत्कृत्या स्त्रीमतल्लिका // 1 // " अनु० कुलस्त्रिया न गन्तव्य-मुत्सवे चत्वरे पथि / देवयात्रा कथास्थाने, न तथा रङ्गजागरे // 2 // " अनु० लिङ्गिन्या वेश्यया दास्या, स्वैरिण्या कारुकस्त्रिया / युज्यते नैव सम्पर्कः, कदापि कुलयोषिताम् // 3 // " अनु० ततो हरिः कमलया सह श्वशुरादीनापृच्छ्य मातापितृगृहं जगाम / कति( चित् ) दिनानि तत्र नीत्वा पश्चात् 'वाराणसी' निजपाठकालङ्कृतां जगाम / तेन पाठकेन गृहस्वामी कृतः / पाठकः परलोकं प्राप्तः / हरिः कमलया सह भोगान् भुङ्क्ते / एवं कियति काले गते हरिर्मनसि चिन्तयति-इमे दुष्टा भोगाः / यतः "श्रुत्वाऽऽह्वानं स्त्रियास्तामनुसरति रसो हंसकोऽन्नादपादेनाशोकः स्पृष्टमात्रस्तिलककुरबको चुम्बनालिङ्गनाभ्याम् / पुष्पेद् वक्त्राब्जवासाधिकरससुरया केसरश्चेद् विकारो ऽप्येषां तत् सत्यकीवाधिकविषयरतिर्यातु किं नो भवार्तिम् ? // 1 // स्रग्० वृद्धत्वमपि जायमानम् / यतः "अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् / 1. 'धर्मोऽसुमति' इति प्रतिभाति / 2. मन्दाक्रान्ता-लक्षणम् "मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ ताद् गुरू चेत् / "