________________ 18 श्रीजैनधर्मवरस्तोत्रम् तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा / कषायातापमृद्वीका, कर्माजीर्णहरीतकी // 2 // " अनु० अथ भावनामाह "कृषौ सुवातः किल वृद्धिहेतुः शिशौ स्वमातुर्गुरुपक्षपातः / राज्ये सुनीतिः प्रणये प्रतीतिः तथाहि धर्मे शुभभावना तु // 1 // उपजातिः १भावण सा का भावीइ, जा भावी भरहेण / रज्ज करंतइ २सधरुद्धरु (?) किउ कम्मखउ जेण // 2 // " अथो क्रोधमाह "क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः / वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता // 1 // " आर्या (प्रशमरतौ श्लो० 26) अथ मानमाह "वर्षं यावत् केवलज्ञानलक्ष्मी लाभं यन्नो बाहुबल्याप पूर्वम् / रामात् संख्ये यच्च लङ्केश्वरेण / प्रापे मृत्युः कारणं तत्र मानः // 1 // शालिनी विमुञ्च मानं मनसाऽपि दुष्टं ___ मानेन लङ्काधिपतिर्विनष्टः / "परासुरासीन्न सुयोधनः किं ? दुःखं स्थितो बाहुबलिर्न वर्षम् ? // 2 // उप० अथ मायामाह "तिर्यक्षु क्षामकुक्षिर्वहति गुरुभरं प्राजनादिप्रणुन्नो योषित्त्वं भूरिदुःखं भजति नरगतौ पङ्गतां कुब्जतां वा / 1. छाया भावना सा का भाव्येत या भाविता भरतेन / राज्यं कुर्वता.....कृतः कर्मक्षयो येन // 2. 'सधरुद्ध स्थाने 'सघरु' स्यात् / 3. युद्धे / 4. परागता असवो यस्य सः, गतप्राणः /