________________ श्रीभावप्रभसूरिकृतम् 'द्वेष्यः प्रेष्यो दरिद्रो विगतसुखलवो निष्फलारम्भकर्ता भूयो भूयश्चिराय भ्रमति भववने २शाठ्यदोषेण देही // 1 // रेस्रग्धरा विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति / ते वञ्चयन्ते त्रिदिवापवर्गसुखान्ममहामोहसखाः स्वमेव // 2 // उप० -(सिन्दूरप्रकरे श्लो० 54) अथ लोभमाह "यद् दुर्गमटवीमटन्ति विकट क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनं क्लेशं (समुद्रमतनुक्लेशां ?) कृषि कुर्वते / सेवन्ते कृपणं पतिं गजघटासट्टदुःसञ्चरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् // 1 // " शार्दूल० -(सिन्दूरप्रकरे श्लो० 57) अथ दीक्षामाह "एकाहमपि यो दीक्षा-मादत्ते पारमेश्वरीम् / अनन्यमनसा धन्यः, सोऽपि याति सुरालयम् // 1 // " अनु० अथ शुद्धव्यवहारं विना एकान्तनिश्चयनैरर्थक्यमाह ""जइ जिणमयं पवज्जह, ता मा ववहारमोयणं कुणह / ववहारनउच्छेए, तित्थुच्छेओ कओ तेण // 1 // आर्या ववहारोवि हु बलवं जं छउमत्थंपि वन्दए अरिहा / आहाकम्मं भुज्जइ सुयनयमयं पमाणंतो // 2 // " आर्या 1. दासः / 2. मायापराधेन / 3. स्रग्धरा-लक्षणम्-"नभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् / " इदं संयोजनीयं षष्ठेऽपि पृष्ठे / 4. युद्धम् / 5. छाया-यदि जिनमतं प्रपद्यध्वं तर्हि मा व्यवहारमोचनं कुरुत / व्यवहारनयोच्छेदे तीर्थोच्छेदः कृतः तेन // व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन् ( केवली)। आधाकर्म भुङ्क्ते श्रुतनयमतं प्रमाणयन् //