________________ श्रीभावप्रभसूरिकृतम् 17 इति मनसि न माति यः स एष सृजतु मुदं चुलुको युगादिभर्तुः // 4 // पुष्पिताग्रा (औपच्छन्दसिकेत्यपरनाम्नी) कारणं जगति सर्वसम्पदा हारणं च विपदां गरीयसाम् / अष्टकर्मकरिणां विदारणं पारणं हरतु तद् दुरितं वः // 5 // " रथोद्धता अथ शीलमाह " २हरति कुलकलङ्कं लुम्पते पापपत . सुकृतमुपचिनोति श्लाघ्यतामातनोति / नमयति रेसुरवर्गा( गं) हन्ति "दुर्गोपसर्ग . रचयति शुभशीलं स्वर्गमोक्षौ सुलीलम् // 1 // “मालिनी तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति ___ व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति / विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् // 2 // शार्दूल० -(सिन्दूर० श्लो० 40) अथ तप आह “यस्माद् विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति / उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भजते श्लाघ्यं तपस्तन्न किम् ? // 1 // शार्दूल० -(सिन्दूर० श्लो० 82) 1. पुष्पिताग्रा-लक्षणम्-"अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा / " 2. श्रीसोमप्रभसूरिकृते सिन्दूरप्रकरे ( श्लो० 39) इदं पद्यमुपलभ्यते, परन्तु तत्र तृतीयचतुर्थचरणौ तु यथा ___ "नमयति सुरवर्ग हन्ति दुर्गोपसर्ग ___ रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् / " " 3. 'सुरवर्गा' इति क-ख-पाठः / 4. 'दुर्गोपसर्गा' इति क-पाठः / 5. मालिनी-लक्षणम्-"ननमयययुतेयं मालिनी भोगिलोकैः / " 6. समूहः /